SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............. मूलं -/गाथा ||४३|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||४३|| श्रीमलयगिरीया नन्दीवृत्तिः ॥५४॥ दीप अनुक्रम [४५] रकमध्ययनं वक्ष्ये, क एवमाह ?, उच्यते-दुष्यगणिशिष्यो देववाचकः ॥ इह ज्ञानस्य प्ररूपणां वक्ष्य इत्युक्तम् , सा चल स्थविरावप्ररूपणा शिष्यानधिकृत्य कर्त्तव्या, शिष्याश्च द्विधा-योग्या अयोग्याश्च, तत्र योग्यानधिकृत्य कर्तव्या नायोग्यानिति लिका. गा. ४२-४४ प्रथमतो योग्यायोग्यविभागोपदर्शनार्थ तावदिदमाहसेलघण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस मेसे य ७। मसग ८ जलूग ९ विराली १० जाहग ११ गो १२ भेरि १३ आभीरी १४ ॥४४॥ अत्र पर आह-ननु ये देववाचकनामानः सूरयस्ते महापुरुषाः सदैव समभावव्यवस्थिताः कृपालवः अत एव सकलसत्त्वहितसम्पादनाय कृतोद्यमाः तत्कथमिदमध्ययनं दातुमुद्यता योग्यायोग्यविभागनिरीक्षणमारभन्ते ?, न हि परहितकरणप्रवृत्तमनसो महीयांसो महादानं दातुकामा मार्गणकगुणमपेक्ष्य दानक्रियायां प्रवर्तन्ते दयालयः, किन्तु प्रावृषेण्यजलभृत इवाविशेषेण, अत्रोच्यते, यत एव देववाचकसूरयः समभावव्यवस्थिताः सकलसत्त्वहितसम्पादनाय कृतोद्यमा महीयांसः कृपालवश्च अत एव शुभमिदमध्ययनं दातुमुद्यता योग्यायोग्यविनेयजनविभागोपदर्शनमारभन्ते, मा भूदयोग्येभ्यः प्रदाने तेषामनर्थोपनिपात इतिकृत्वा, अथ कथं तेषामेतदध्ययनप्रदाने महानर्थोपनिपातः, उच्यते, ते हि तथाखाभाव्यादेव अचिन्त्यचिन्तामणिकल्पमज्ञानतमःसमूहभास्करमनेकभवशतसहस्रपर- म्परासङ्कलितकर्मराशिविच्छेदकमपीदमध्ययनमवाप्य न विधिवदासेवन्ते, नापि मनसा बहुमन्यन्ते, लाघवमपि चास्य २५ ज्ञानप्ररुपणा संबंधे शिष्याणां योग्यायोग्य विभाग-दर्शनार्थे १४ दृष्टान्ता: ~111~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy