________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२९] → “नियुक्ति: [१०७] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०७||
बन्धनमात्मकर्म जानीहि, इयमत्र भावना-आधाकर्म यद्वा स्वरूपेणानाधाकापि भक्तिवशतो मदर्थमेतन्निष्पादितमित्याधाकर्मग्रहणपरिणतो यदा गृह्णाति तदा स साक्षादारम्भकत्तेच स्वपरिणामविशेषतो ज्ञानावरणीयादिकर्मणा बध्यते, यदि पुनर्न गृह्णीयाचा न वध्यते, तत आधाकर्मग्राहिणा यत्परस्य पाचकादेः कर्म तदात्मनोऽपि क्रियते इति परकर्म आत्मकर्म करोतीत्युच्यते, एतदेव स्पष्ट व्यनक्ति-'परकम्मे 'त्यादि, तत आधाकर्म यदा साधुहीत्वा भुते स परस्य पाचकादेयत्कर्म तदात्मकर्मीकरोति, आत्मनोऽपि सम्बन्धि करोतीति भावार्थः ।। अमुं च भावार्थमस्य वाक्यस्याजानानः परो जातसंशयः प्रश्नयति
तत्थ भवे परकिरिया कहं नु अन्नत्थ संकमइ ? ॥ १०८ ॥ व्याख्या-तत्र' परकर्म आत्मकर्मीकरोतीत्यत्र वाक्ये भवेत् परस्य वक्तव्यं यथा-कथं 'परक्रिया' परस्य सत्कं ज्ञानावरणीयादिकर्म अन्यत्र आधाकर्मभोजके साधौ संक्रामति', नैवं सक्रामतीति भावः, न खलु जातुचिदपि परकृतं कर्म अन्यत्र सङ्का कामति, यदि पुनरन्यत्रापि सङ्क्रामेत् वदि क्षपकश्रेणिमधिरूढः कृपापरीतचेताः सकलजगजन्तुकम्मनिर्मूलनापादनसमर्थः सर्वेषामपि |
जन्तूनां कर्म ज्ञानावरणीयाद्यात्मनि सङ्क्रमय्य क्षपयेत् । तथा च सति सर्वेषामेककालं मुक्तिरुपजायेत, न च जायते, तस्मान्नैव परकृतकर्मणामन्यत्र सङ्क्रमः, उक्तं च-"क्षपकश्रेणिपरिगतः स समर्थः सर्वकम्मिणां कर्म । क्षपयितुभेको यदि कर्मसक्रमः स्यात्परकृतस्य ॥१॥ परकृतकर्मणि यस्मान्न कामति सक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तदेयम् ॥ २॥" ततः कथमुच्यते-परकर्म आत्मकमींकरोतीति ? । इदं च वाक्यं पूर्वान्तर्गतमन्यथाऽपि केचित्परमार्थमजानाना व्याख्यानयन्ति, ततस्तमतमपाकर्तुमुपन्यस्यन्नाह
दीप अनुक्रम [१२९]
SAREauratonintentmational
~ 90 ~