________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११३] → “नियुक्ति: [९७] + भाष्यं [१६] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६||
भक्तिनिर्देशश्वशब्दोपादानं च यस्य साध्वर्थमपद्रावणं कृत्वा गृही स्वार्थमतिपातं करोति तत्कल्प्य, यस्य तु गृही त्रिपातनमपि साध्वर्थे । विधत्ते तन्न कल्प्यमिति ख्यापनार्थम् , इत्थंभूतमौदारिकशरीराणामपद्रावणं त्रिपातनं च यस्य साधोरेकस्पानेकस्य वार्थाय-निमित्र 'मन आधाय' चित्तं प्रवर्त्य क्रियते तदाधाकर्म ब्रुवते तीर्थकरगणधराः । इमामेव गाथा भाष्पकृद् गाथात्रयेण व्याख्यानयति__ ओरालग्गहणेणं तिरिक्खमणुयाऽहवा सुहुमवज्जा । उद्दवणं पुण जाणसु अइवायविवज्जियं पीडं ॥ २५ ॥
कायवइमणो तिनि उ अहवा देहाउइंदियप्पाणा । सामित्तावायाणे होइ तिवाओ य करणेसुं ॥ २६ ॥ हिययंमि समाहेउं एगमणेगं च गाहगं जो उ । वहणं करेइ दाया कायेण तमाह कम्मति ॥ २७ ॥ (भा.)
व्याख्या-मुगमाः, नवरं 'देहाउइंदियप्पाणे 'ति देहायुरिन्द्रियरूपास्त्रयः प्राणाः, 'सामित्ते'त्यादि, स्वामित्वे-स्वामित्वविषये सम्बन्धविवक्षयेति भावार्थः, एवमपादाने-अपादानविवक्षया करणेषु विषये करणविवक्षया अतिपातो भवति, यथा त्रयाणां पातनं त्रिपा-18 तनं, यद्वा-त्रिभ्यः पातनं त्रिपातनं, त्रिभिर्वा करणभूतैः पातनं त्रिपातनं, भावार्थस्तु मागेवोपदर्शितः ॥ तदेवमुक्तमाधाकर्मनाम, सम्प-15 त्यधाकर्मनाम वक्तव्यं, तदपि चापाकर्म चतुओं, तद्यथा-नामाधःकर्म स्थापनाधःकर्म द्रव्याधःकर्म भावाधाकर्म च, एतच्चाधाकर्मवत्तावद्वक्तव्यं यावन्नोआगमतो ज्ञशरीरभव्यशरीररूपं द्रव्याधःकर्म, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्याधःकर्म नियुक्तिकृदाह
जं दव्वं उदगाइस छूढमहे वयइ जं च भारेणं । सीईए रज्जुएण व ओयरणं दब्बहेकम्मं ॥ १८ ॥
दीप अनुक्रम [११३]
40000000000000000000००००००कर
अत्र मूल संपादने '२५' इत्यादि भाष्य क्रमांकनं स्खलनत्वात् मुद्रितं दृश्यते तेषां क्रमाकनं '१६, १७, १८ इत्यादि सन्ति
~ 78~