________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१११] → “नियुक्ति: [९६] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६||
glssरोप्यते, कापोत्या आश्रयो नरस्कन्धः, नरो हि पानीयानयनाय कापोती स्कन्धेन वहति, भरस्थाश्रपो गन्पादिः, महापमाणो हि भरो गन्यादिनैवानेतुं शक्यते नान्येन, तथा कुटुम्बचिन्ताया राज्यचिन्तायाश्चाश्रयः 'हृदय' मनः, हृदयमन्तरेण चिन्ताया अयोगात धनुर्विपये भावनामाह-'अन्तके' करहसझे धनुषः सम्बन्धिनि प्रत्यश्वाऽऽरोप्यते ततो धनुः प्रत्यञ्चाया आश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयं, तब भावितमेव ।। उक्ता द्रव्याधा, सम्पति भावाधा वक्तव्या, सा प दिया-आगमतो नोआगमतच, तत्रागमत आधाशब्दार्थपरिज्ञानकुशलः तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात् , नोआगमतस्तु भावाधा यत्र तत्र वा मन:प्रणिधानं, तथादि-भावो नाम मानसिकः परिणामः तस्य चाधानं-निष्पादनं भवति मनसस्तदनुगुणतया तेन तेन रूपेण परिणमने सति नान्यथा, सतो मनामणिधानं भावाधा, सा चेह प्रस्तावात्साघुदानार्थमोदनपचनपाचनादिविषया द्रष्टव्या तया यत्कृतं कर्म--ओदनपाकादि तदाधाकर्म, तथा चाह नियुक्तिकृत्
ओरालसरीराणं उद्दवण तिवायणं च जरसट्टा । मणमाहिता कीरइ आहाकम्मं तय बैंति ॥ ९७ ॥ व्याख्या-औदारिकं शरीरं येषां ते औदारिकशरीराः-तिर्यञ्चो मनुष्याच, तत्र तिर्यश्च:-एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्ता द्रष्टव्याः, एकेन्द्रिया अपि सूक्ष्मा बादराश्च, नन्विद येऽपद्रावणयोग्यास्तियेचस्ते ग्राह्याः, न च सूक्ष्माणां मनुष्यादिकृतमपद्रावणं सम्भवति, सूक्ष्मत्वादेव, ततः कथं ते इह गृह्यन्ते!, उच्यते, इह यो यस्मादविरतः स तदकुर्वनापि परमार्थतः कुर्वन्नेव अवसेयो यथा रात्रिभोजनादानिवृत्तो रात्रिभोजनं, गृहस्थव सूक्ष्मैकेन्द्रियापदाषणादनिवृत्तः, ततः साध्वर्थं समारम्भं कुर्वन् स तदपि कुन्नवगन्तव्य इति सूक्ष्मग्रहणं, यदाएकेन्द्रिया बादरा एव ग्राद्या न सूक्ष्माः, तथा च वक्ष्यति भाष्यकृत्-"ओरालगहणेणं तिरिक्खमणुयाऽहवा मुहुमवजा " तेषामो-||
दीप अनुक्रम [१११]
~ 76~