________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०९] → “नियुक्ति: [९४] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||९४||
आहाकम्मिय नामा एगट्ठा कस्स वावि किं वावि । परपक्खे य सपक्खे चउरो गहणे य आणाइ ॥९॥ व्याख्या-इह प्रथमत आधाकम्मिकस्य नामान्येकाथिकानि वक्तव्यानि, ततस्तदनन्तरं कस्यार्थाय कृतमाधाकर्म भवतीति विचारणीयं, तदनन्तरं च किस्वरूपमाषाकर्मेति विचार्य, तथा 'परपक्षः' गृहस्थवर्ग: 'स्वपक्षः' साध्वादिवर्गः, तत्र परपक्षनिमित्तं कृतमाधाकर्म न भवति, स्वपक्षनिमित्तं तु कृतं भवतीति वक्तव्यं, तथा आधाकर्मग्रहणाविषये चत्वारोऽतिक्रमादयः प्रकारा भवन्तीति वक्तव्यं, तथा 'ग्रहणे' आधाकर्मणो भक्तादेरादाने आज्ञादयः 'सूचनात्सूत्रमिति न्यायादाशाभङ्गादयो दोषा वक्तव्याः ॥ तत्रैकाधिकाभिधानलक्षणं प्रथमं द्वारं विवक्षुराह
आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । पडिसेवण पडिसुणणा संवासऽणुमोयणा चेव ॥ ९५ ॥
व्याख्या-'आहा अहे य कम्मे 'त्ति अत्र कर्मशब्दः प्रत्येकमभिसम्बध्यते, चकारश्च कम्मेत्यनन्तरं समुच्चयाओं द्रष्टव्यः, तत एवं निर्देशो ज्ञातव्य:-श्राधाकर्म अधःकर्म च, तत्राऽऽधाकम्र्मेति प्रागुक्तशब्दार्थम् , अधःकम्र्मेति अधोगतिनिबन्धनं कर्म अधाकर्म, तथाहि-भवति साधूनामाधाकर्म भुञ्जानानामधोगतिः, तन्निबन्धनप्राणातिपाताद्यास्रवेषु प्रवृत्तेः, तथा आत्मानं दुर्गतिमपातकारणतया हन्तिविनाशयतीत्यात्मनं, तथा यत् पाचकादिसम्बन्धि कर्म-पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तदात्मनः सम्बन्धि क्रियते अनेनेति । आत्मकर्म । एतानि च नामान्याधाकर्मणो मुख्यानि सम्पति पुनयः प्रतिषेवणादिभिः प्रकारैस्तदाधाकर्म भवति तान्यप्यभेदविवक्षया | नामत्वेन प्रतिपादयति-पडिसेवणेत्यादि' प्रतिसेव्यते इति प्रतिपेवणं, तथा आधाकर्मनिमन्त्रणानन्तरं प्रतिश्रूयते-अभ्युपगम्यते यत
दीप अनुक्रम [१०९]
SARERatinintentmatra
अथ आधाकर्म दोष संबंधी वर्णनं क्रियते
~ 74~