________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५६ ||
दीप
अनुक्रम [७१]
मूलं [७१]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युतेर्मलयगि याचि
॥ २३ ॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ ( मूलं + निर्युक्तिः + वृत्तिः)
●→ “निर्युक्तिः [ ५६ ] + भाष्यं [ १५... ] + प्रक्षेपं
F
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
तेष्वपि ' मूर्त्तिरहितेष्वपि अमूर्तेष्वित्यर्थः, क्षेत्र प्रदेशकालसमयेषु युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्परानुवेधस्य सङ्ख्या-पिण्डनिक्षेपे बाहुल्यस्य च सम्भवात् तथादि - सर्वेऽपि क्षेत्रमदेशाः परस्परं नैरन्तर्यलक्षणेन सम्बन्धेन सम्बद्धा अवतिष्ठन्ते ततो यथा बादरनिष्पादिते चतुरस्रादिघने परस्परनैरन्तर्यरूपानुवेधतः सङ्ख्याबाहुल्यतश्च पिण्ड इति व्यपदेशः प्रवर्त्तते तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दः प्रवर्त्तमानो न विरुध्यते, तत्रापि परस्परनैरन्तर्यरूपस्यानुवेधस्य सङ्ख्याबाहुल्यस्य च सम्भवाद, तथा कालोऽपि परमार्थतः सन् द्रव्यं च ततः सोऽपि परिणामी, सतः सर्वस्य परिणामित्वाभ्युपगमाद्, अन्यथा सत्त्वायोगात्, एतचान्यत्र धर्मसङ्ग्रहणिटीकादौ विभावितमिति नेह भूयो विभाव्यते, ग्रन्थगौरवभयात, परिणामी चान्वयी तेन तेन रूपेण परिणममान उच्यते, ततोऽस्ति वार्त्तमानिकस्यापि समयस्य पूर्वापरसमयाॐ भ्यामनुवेधः केवलं सी पूर्वापरसमयावसन्तावपि बुद्धया सन्ताविव विवक्षितौ ततः सङ्ख्याबाहुल्यमपि तत्रास्तीति पिण्डशब्दमयविरोधः । सम्पति क्षेत्रे पिण्डशन्दमवृत्त्यविरोधं दृष्टान्तद्वारेण समर्थयते-
Education Internation
जह तिपएसो खंधो तिसुवि पएसेस जो समोगाढो । अविभागिण संबद्धो कहं तु नैवं तदाधारो ? ॥ ५७ ॥
व्याख्या -यथा कश्चिदनिर्दिष्ट व्यक्तिकः 'त्रिमदेशिकः ' त्रिपरमाण्वात्मकः स्कन्धस्त्रिष्वप्याकाशप्रदेशेष्ववगाढो न त्वेकस्मिन् द्वयोवेत्यपिशब्दार्थः, 'अविभागेन सम्बन्धो' विभागो-नैरन्तर्याभावस्तदभावोऽविभागो नैरन्तर्यमित्यर्थः तेन सम्बन्धो नैरन्तर्यसम्बन्धसम्बद्ध इति ॥ २३ ॥ भावः, पिण्ड इति व्यपदिश्यते, नैरन्तर्येणावस्थानभावात् सङ्ख्याबाहुल्यतथ, एवं- त्रिप्रदेशावगाढत्रिपरमाणुस्कन्च इव तदाधारः - त्रिपरमास्कन्धाधारः प्रदेशत्रयसमुदायः कथं तु न पिण्ड इति व्यपदिश्यते ?, सोऽपि पिण्ड इति व्यपदिश्यताम् उभयत्राप्युक्तनीत्या विशेषामा
For Parts Only
क्षेत्रकालपिण्डौ
~49~