________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०] » "नियुक्ति: [१५] + भाष्यं [१५...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५५||
क्षेत्रपिण्ड इत्युच्यते, क्षेत्रतो व्यपदिष्टः पिण्डः क्षेत्रपिण्ड इति व्युत्पत्तेः, यदातु कालतोऽवस्थानमधिकृत्य कालपाधान्यविवक्षया कालेन व्यपदेशो यथा-एकसामयिको द्विसामयिक इत्यादि तदा स कालपिण्डोऽपि भण्यते, कालतो व्यपदिष्टः पिण्डः कालपिण्ड इति समासाऽऽश्रयणात्, अथवा | त्रिप्रदेशाद्यात्मकक्षेत्रपिण्डे यादिवा त्रिसमयाधात्मक कालपिण्डे यदवस्थितं पुद्गलद्रव्यं तत्तदादेशात क्षेत्रकालव्यपदेशात्-क्षेत्रकालोपचारादित्यर्थः, यथाक्रम क्षेत्रपिण्डः कालपिण्डः । प्रकारान्तरेण सोपचारी क्षेत्रकालपिण्डावाह-'जत्थ जया तप्परूवणया''यत्र ' वसत्यादौ यदा प्रथमपौरुष्यादौ 'तत्मरूपणा' पिण्डमरूपणा क्रियते स पिण्डः प्ररूप्यमाणो नामादिपिण्डो वसत्यादिलेत्रमधिकृत्य क्षेत्रपिण्ड उच्यते यथाऽमुकवसतिरूपक्षेत्रपिण्ड इति, प्रथमपौरुष्यादिकं तु कालमधिकृत्य कालपिण्डो यथाऽमुकप्रथमपहरादिरूपः कालपिण्ड' इति ।। 'इद तिन्त्रि उ पएससमया' इत्यत्र पर आक्षेपमाह-ननु मूर्तेषु द्रव्येषु परस्परमनुवेधत: सङ्ख्यावाहुल्यतश्च पिण्ड इति व्यपदेशो घटते, क्षेत्रकालयोस्तु न परस्परमनुवेधो नापि काले सङ्घयावाहुल्यं, तथाहि-क्षेत्रमाकाशमुच्यते 'खेतं खलु आगास 'मिति वचनात, तथ नित्यमकृत्रिमत्वाद, ततः सदैव विविक्तपदेशात्मकतया व्यवस्थितमिति कथमाकाशप्रदेशानामनुवेधः, एकत्र मिश्रणाभावात् , कालोऽपि पूर्वापरसमयविविक्तो| वार्चमानिकसमयरूप एव पारमार्थिकः, पूर्वापरसमययोपिनष्टानुत्पन्नत्वेन परमार्थतोऽसत्वात् , सतां च परस्परमनुवेधः सङ्ख्यावाहुल्यं वा नासता सदसतां बा, ततः कालद्वयमपि नोपपद्यते इति कथं तत्र पिण्ड इति व्यपदेशः ?, अत्र प्रतिविधानमभिधित्सुराहमुत्तदविएस जुज्जइ जइ अन्नोऽन्नाणुवेहओ पिंडो । मुत्तिविमुत्तेसुवि सो जुज्जइ नणु संखबाहुल्ला ॥ ५६ ॥
व्याख्या-ननु यदि मूर्तेषु द्रव्येषु 'अन्योऽन्यानवेधतः । परस्परानुवेधतः, 'संखबाहुल्लार इत्यप्यत्र सम्बध्यते, 'सङ्ख्यावाहुआल्यतश्च' द्वयादिसख्यासम्भवतच पिण्ड इति व्यपदेशो 'युज्यते' योगमुपैति घटते इत्यर्थः, तहि स पिण्ड इति व्यपदेशः 'मूर्तिविमु
दीप अनुक्रम [७०]
~ 48~