SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५४|| दीप अनुक्रम [ ६९ ] “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ ( मूलं + निर्युक्तिः + वृत्तिः) ●→ मूलं [ ६९ ] मुनि दीपरत्नसागरेण संकलित पिण्डनतेर्मलयगि रीयावृत्तिः, ॥ २२ ॥ “निर्युक्तिः [५४] + भाष्यं [१५... ] + प्रक्षेपं " F आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः कः ' वत्थुलभञ्जिकादिरूपः, स च वनस्पतिकायपृथिवीकायत्र सकायादिपिण्डरूपः, 'फलम् ' आमलकादि, तथेह पकं ग्राह्यं ततस्तदपीत्थमेव भावनीयं, 'पोग्गलं ' मांसं तदपीह पकं गृह्यते, ततस्तदपि शाकवद्भावनीयं, 'लवणं' प्रतीतं तचाप्कायपृथिवीकायरूपं, 'गुडौंदनौ' प्रतीतौ तावपि फलवद्भावनीयौ, एवमन्येऽप्यनेके यथासम्भवं संयोगे पिण्डा भावनीयाः, केवलं तं तं संयोगं परिभाव्य यो यत्र | द्विक्संयोगादावन्तर्भवति स तत्र स्वयमेवान्तर्भावनीयः ॥ तदेवमुक्तः सप्रपञ्चं द्रव्यपिण्डः, सम्प्रति क्षेत्रकालपिण्डावभिधित्सुराद्द— तिनि उ पएससमया ठाणडिउ दविए तयाएसा । चउपंचमपिंडाणं जत्थ जया तप्परूवणया ॥ ५५ ॥ व्याख्या - इह क्षेत्रकालपिण्डौ 'नाम उवणापिंडे दबे खेत्ते य काल भावे य' इति गाथा निर्देशक्रमापेक्षया चतुर्थपञ्चमपिण्डौ, क्षेत्रम् - आकाशं कालः- समयविवर्तरूपः, तत्र त्रयः प्रदेशाः क्षेत्रप्रस्तावादाकाशमदेशाः तथा त्रयः समयाः कालस्य निर्विभागा भागाः, तुशब्दो विशेषणार्थः, स च परस्परमनुगता इति विशेषयति, 'चतुष्पञ्चमपिण्डयोः' क्षेत्रकालपिण्डयोः स्वरूपम्, इयमत्र भावना - त्रयः पर स्परमनुगता आकाशप्रदेशास्त्रयः परस्परमनुगताः समया यथाक्रमं क्षेत्रपिण्डः काळपिण्ड इति वेदितव्याः, त्रिग्रहणं चोपलक्षणं, तेन द्विचतुरादयोऽपि द्रष्टव्याः, तदेवं क्षेत्रकालपिण्डौ निरुपचरितौ प्रतिपाय सम्पति तावेव सोपचारावभिधत्ते – 'ठाणहिइड दविए तयासा | 'दविएत्ति' द्रव्ये - पुद्गलस्कन्धरूपे स्थानम् - अवगाहः स्थिति:- कालतोऽवस्थानं स्थानं च स्थितिश्व स्थानस्थिती ताभ्यां स्थानस्थितितः अत्र पञ्चमी 'यपः कर्माधारे' इत्यनेन सूत्रेण ततोऽयमर्थः स्थानं स्थितिं चाश्रित्य यस्तदाऽऽदेशः- क्षेत्रकालादेशः क्षेत्रकालमाधान्यविवक्षया क्षेत्रेण कालेन च व्यपदेशस्तस्माच्चतुष्पञ्चमपिण्डयोः प्ररूपणा कार्या, किमुक्तं भवति ?--स्कन्धरूपे पुद्गलद्रव्येऽवगाहचिन्तामाश्रित्य क्षेत्रप्राधान्यविवक्षया यदा क्षेत्रेण व्यपदेशो यथा एकप्रादेशिकोऽयं द्विप्रादेशिकोऽयं त्रिप्रादेशिक इत्यादि स इत्थं क्षेत्रतो व्यपदिश्यमानः अथ क्षेत्र काल पिण्ड विषयक वर्णनं क्रियते For Parts Only ~ 47~ 5000000000000000 पिण्डनिक्षेपे क्षेत्रकाल पिष्टः ॥ २२ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy