________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६५] .→ "नियुक्ति: [१०] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५०||
भ्रष्टानां साधूनां मीलनाय वाचते, तथाऽविलादिगणस्य गड्डरिकाया गडरकस्य वा, आदिशब्दादन्येषां च पुरीषस्य, गोमूत्रस्य पामामाधुपमईने, क्षीरादीनां भोजने ।। सम्पति मनुष्यस्य सचित्तादिभेदात् त्रिषिधस्याप्युपयोगमाह| सचित्ते पव्वावण पंथुवएसे य भिक्खदाणाई । सीसढिग अच्चित्ते मीसहिसरक्खपहपुच्छा ॥ ५१ ॥
व्याख्या-सचिने इति षष्ठीसप्तम्योरय प्रत्यभेदात् सचित्तस्य मनुष्यस्य प्रयोजनं पथि पृष्टे 'उपदेशः' कथनं, तथा भिक्षादानम्, आदिशब्दाद्वसत्यादिदानं चोपयोगः, शिरसोऽस्थि, तदि लिने व्याधिविशेषापनोदाय घर्पित्वा दीयते, यदा कदाचित्कवित्परिरुष्टो राजादिः साधूनां विनाशाय कृतोद्यमो भवेत् ततस्ते साधवः शिरोऽस्थिकमादाय कापालिकवेषेण नंष्ट्वा देशान्तरं वजितुमिच्छन्तीति । तेन प्रयोजनं, तथा मिश्रस्य मनुष्यस्पोपयोगः, 'अविसरक्खि ति ' अस्थिभिः ' आभरणकल्पैः भूषितस्य सरजस्कस्य सरक्षाकस्य वा भस्मावगुण्ठितवपुष्कस्येत्यर्थः, कापालिकस्य पार्चे यत्पयि विषये प्रच्छनम् ।। सम्पति देवताविषयमुपयोगमाह
खमगाइ कालकाजाइएसु पुच्छिज्ज देवयं कचि । पंथे सुभासुभे वा पुच्छेज्जह दिव्य उवओगो ॥ ५२ ॥
व्याख्या-क्षपकादिः, आदिशब्दादत्राऽऽचार्यादिपरिग्रहा, क्षपकस्य हि तपोविशेषाकृष्टत्वेन प्रायः समासना एव देवता भवन्ति । नतत इद्द साक्षात्क्षपकग्रहणं कृतं, 'कालकार्यम् ' मरणरूपं प्रयोजन, तदादिकेषु प्रयोजनेपस्थितेषु काश्चिदेवतां पृच्छेत् , तथा पथिविषयेषु 'शुभाशुभे' सापायत्वे निरपायत्वे वा देवतां काञ्चन पृच्छेन्, एष 'दिव्य उपयोगः 'देवताविषय उपयोगः ।। तदेवं सचित्तादिभेदभिभत्रिपकारोऽपि द्रव्यपिण्डः प्रत्येकं पृथिवीकायादिभेदानवविध उक्तः, सम्पत्येतेषामेव नवानां पृथिवीकायादीनां ह्यादिमिश्रणतो मिश्र द्रष्यपिण्डमभिधित्मराह
दीप अनुक्रम [६५]
~ 44 ~