________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७०] .→ “नियुक्ति: [६२८] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६२८||
दीप अनुक्रम [६७०]
खण्डसम्मिश्री घृतविन्दुर्भूमौ निपतितः, ततो भगवान् धर्मयोको मुक्तिदैकनिहितमानसो जलपिरिव गम्भीरो मेरुरिव निष्पकम्पो वसुधेव सर्वसहः शङ्ख इव रागादिभिररञ्जनो महासुभट इब कर्मरिपुविदारणनिबद्धकक्षो भगवदुपदिष्टभिक्षाग्रहणविधिविधानकृतोद्यमो भिक्षेयं छर्दितदोषदृष्टा तस्मान मे कल्पते इति परिभाव्य ततो निजंगाम, वारत्तकेन चामात्येन मत्तवारणस्थितेन दृष्टो भगवान् निर्ग-18
छन, चिन्तयति च स्वचेतसि-किमनेन भगवता न गृह्यते स्म मे गृहे भिक्षेति ?, एवं च यावचिन्तयति तावतं भूमौ निपतितं खण्ड-181 युक्तं घृतबिन्दु मलिकाः समागत्याशिश्रियन् , तासां च भक्षणाय प्रधाविता गृहगोधिका, गृहगोधिकाया अपि वधाय प्रधावितः सरट: सरटस्यापि च भक्षणाय प्रधावति स्म माजोरी, तस्या अपि च वधाय प्रधावितः माघूर्णकः श्वा, तस्यापि च प्रतिद्वन्दी प्रभावितोऽन्यो। वास्तव्यः श्वा, ततो द्वयोरपि तयोः शुनोरभूत् परस्परं कलदः, ततः स्वस्वसारमेयपराभवदूनमनस्कतया मधावितयोयोरपि तत्स्वामिनोरभूत परस्परमस्थसि युद्धम्, एतच सर्वं वारत्तकामात्येन परिभावितं, ततश्चिन्तयति स्त्रचेतसि-घृतादेषिन्दुमात्रेऽपि भूमौ निपतिते यत
एवमधिकरणपत्तिः अत एवाधिकरणभीरुभेगवान् घृतविन्दुं भूमौ निपतितमवलोक्य भिक्षा न गृहीतवान् , अहो ! सुदृष्टो भगवता धर्मः, Malको हि नाम भगवन्तं सर्वज्ञमन्तरेणेत्थमनपायिनं धर्ममुपदेष्टुमीशः?, न खल्वंधो रूपविशेष जानाति, एवमसर्वोऽपि नेत्थं सकल
कालमनपायं धर्ममुपदेष्टुमलं, तस्माद्भगवानेव सर्वज्ञः, स एव च मे जिनो देवता, तदुक्तपेवानुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिन्त्य संसारविमुखमझो मुक्तिवनिता श्लेषमुखलम्पटः सिंह इव गिरिकन्दराया निजमासादाद्विनिर्गत्य धर्मघोषस्य साधोरुपकण्ठं प्रवज्यामग्रहीत , स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तभिक्षाग्रहणादिविधिसेवी संयमानुष्ठानपरायणः स्वाध्यायभावितान्तःकरणो दीर्घकालं संयममनुपाल्य जातपतनुकर्मा समुच्छलितदुर्निवार्यवीर्यप्रसरः क्षपकश्रेणिमारुह्य घातिकर्मचतुष्टयं समूलघातं हत्या, केवलक्षानलक्ष्मीमासा-2
~342~