________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५२२] .. “नियुक्ति: [४८४] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४८४||
दीप अनुक्रम [५२२]
स्तवः । तत्र सम्बन्धिनो-मात्रादयः वधूवादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः, बचन-लापा तद्पो यः संस्तवः स वचनसंस्तवः, एकैकोऽपि च द्विधा, तद्यथा-'पुचि पच्छा य'त्ति पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह| मायपिइ पुबसंथव सासूसुसराइयाण पच्छा उ । गिहि संथवसंबंधं करेइ पुध्वं च पच्छा वा ॥ ४८५ ॥
व्याख्या-मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रुश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तवः, श्वभूवादीनां पश्चात्कालभावित्वात्, तत्र साधुर्भिक्षार्थ प्रविष्टः सन् गृहिभिः सह 'संस्तवसम्बन्ध परिचयघटनं 'पूर्व' पूर्वकालभावि मात्रादिरूपतया 'पश्चाद्वारे पश्चात्कालभावि श्वश्रूवादिरूपतया वा करोति । कथम् ? इत्याइ
आयवयं च परवयं नाउं संबंधए तयणुरूवं । मम माया एरिसिया ससा व धूया व नत्ताई ॥ ४८६ ॥
व्याख्या-इह साधुभिक्षार्थ गृहे प्रविष्टः सन्नाहारलम्पटतयाऽऽत्मवयः परवयश्च ज्ञात्वा तदनुरूपं ' वयोऽनुरूपं सम्बधाति, यदि सा वयोवृद्धा स्वयं च मध्यमवयाः ततो ममेदशी माताऽभूदिति ब्रूते, यदि पुनः साऽपि मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति बदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्पत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह
अडिइ दिद्विपण्हव पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विहवासुण्हाइदाणं च ॥ ४८७ ॥ व्याख्या-कोऽपि साधुभिक्षार्थ प्रविष्टः काञ्चिनिजमालसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेनाधृत्या दृष्टिपस्न
~282~