________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५१४] .→ “नियुक्ति: [४७६] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४७६||
धूयदुए संदेसो दाणसिणेह करणं रहेगहणं । लिंग मुयत्ति गुरुसिह विवाहे उत्तमा पगई ॥ ४७६ ॥ रायघरे य कयाई निम्महिलं नाडगं तडागत्था । ता य विहरति मत्ता उवरि गिहे दोवि पासुत्ता ॥ ४७७ ॥ वाघाएण नियत्तो दिस्स विचेला विराग संबोही । इंगियनाए पुच्छा पजीवणं रहवालंमि ॥ ४७८ ॥ इक्खागवंस भरहो आयंसघरे य केवलालोओ । हाराइखिवण गहणं उवसा न सो नियत्तोत्ति ॥ ४७९ ॥ तेण समं पव्वइया पंच नरसयत्ति नाडए डहणं । गेलन्न खमग पाहुण थेरा दिवा य बीयं तु ॥ ४८० ॥
व्याख्या-राजगृहं नाम नगरं, तब सिंहरयो राजा, विश्वकर्मा नाम नटः, तस्य द्वे दुहितरौ, ते चढे अप्यतिमुरूपे अतिशयाते || 15 वदनकान्त्या दिनकरकरोझासितकमलश्रियं नयनयुगलेन सचञ्चरीककुवलययुगलं पीनोन्नतनिरन्तरपयोधरयुगलेन संहततालफलयुगल-1
लक्ष्मी वायुगलेन पलवलता त्रिवलिभतरेण मध्यभागेनेन्द्रायुधमध्यं जघनविस्तरेण जाह्नवीपुलिनदेशं ऊरयुगलेन गजकलभनासाभोग
जवायुगलेन कुरुविन्दवृत्तसंस्थितं चरणयुगलेन कूर्मदेहाकृतिं सुकुमारतया शिरीषकुसुमसञ्चयं वचनमधुरतया वसन्तमासोन्मत्तकोकिलाहारब, अन्यदा च तत्र यथाविहारक्रम समाययुर्धर्मरुचयो नाम सूरयः, तेषामन्तेवासी प्रज्ञानिधिराषाढभूतिः, स भिक्षार्थमटन् कथमपि विश्वकर्मणो नटस्य गृहे पाविशत् , तत्र च लब्धः प्रधानो मोदकः, द्वारे च विनिर्गत्य तेन चिन्तितम्-एष सूरीणां भविष्यति, तत आत्मार्थ रूपपरावर्त्तमाधायान्यं मोदकं मार्गयामि, ततः काणरूपं कृत्वा पुनः प्रविष्टो, लब्धो द्वितीयो मोदका, ततो भूयोऽपि चिन्तितम्एष उपाध्यायस्य भविष्यति, ततः कुब्जरूपमभिनिर्त्य पुनरपि प्रविष्टः, लम्धस्तृतीयो मोदकः, एष द्वितीयसकाटकसापोर्भविष्यतीति ।
दीप अनुक्रम [५१४]
REaratundelkand
~ 276~