________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४५२||
दीप
अनुक्रम [ ४९० ]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ ४९० ]
•
"निर्युक्ति: [ ४५२ ] + भाष्यं [ ३४...] + प्रक्षेपं [५...]"
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
व्याख्या - अपि नाम गवादीनां तृणादिक आहारो भवेत् सुलभ, छिच्छिका रहतानां स्वमीषां शूनां न तु कदाचनापि भवति सुलभः, तत एतेभ्यो यद्दीयते तदेव बहुफलमिति भावः अपि च नैते श्वानः श्वान एव, किन्तु 'गुद्यका' देवविशेषा 'कैलासभवनातू ' कैलासपर्वतरूपादाश्रयादागत्य 'महीं' पृथिवीं यक्षरूपेण श्वाकृत्या चरन्ति तत एतेषां पूजाऽपूजा च यथासङ्ख्यं हिताऽहिता चेति । सम्पति ब्राह्मणादिविषयवनीपकत्वे दोषानाह
मज्झ भावो दो लोए पणामहेज्जमि । एक्केके पुग्वृत्ता भद्दगपंताइणो दोसा ॥ ४५३ ॥
व्याख्या- ' एतेन ' अनेन साबुना 'मज्झ' मदीयः 'भाव: ' भक्तत्वलक्षणः 'दृष्टः ' अवगतो 'लोके' ब्राह्मणादी, किंविशिष्टे ? इत्याह-' प्रणामहायें' प्रणामः प्रणमनं तेन, उपलक्षणमेतत् दानादिना च, हायें- आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादिविषये वनीपकत्वे पूर्वोक्ता भद्रकमान्तादयो दोषा भावनीयाः किमुक्तं भवति ?-यदि भद्रकस्तर्हि प्रशंसावचनतो वशीकृत आधाकर्मादि कृत्वा प्रयच्छति, अथ प्रान्तस्तर्हि गृहनिष्कासनादि करोति । इह माक् 'साणे पुण होइ पंचमए' इत्युक्तं तत्र साणग्रहणं काकादीनामुपलक्षणं, तेन काकादिष्वपि वनीपकत्वं द्रष्टव्यं तथा चाह
एमेव कागमाई साणग्गणेण सूइया होंति । जो वा जंमि पसन्तो वणइ तहिं पुपुट्ठो वा ॥ ४५४ ॥ व्याख्या---' एवमेव ' वनीपकत्वमरूपणाविषयत्वेन श्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम् । || एतदेव व्याप्तिपुरस्सरमाह-यो वा यत्र काकादौ पूजकत्वेन प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा 'वनति' प्रशंसाद्वारेणाऽऽत्मानं भक्तं दर्शयति । सम्मति बनीपकत्वं कुर्वतः साथोर्युक्त्या दोषगरी यस्त्वं प्रकटयति-
Education Intemational
For Parts Only
~266~
०