________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७६] .→ “नियुक्ति: [४३८] + भाष्यं [३४] + प्रक्षेपं [५...]"
.
प्रत
गाथांक नि/भा/प्र ||४३८||
जाईकुले विभासा गणो उ मल्लाइ कम्म किसिमाई । तुलाइ सिप्पडणावज्जगं च कंमेयराऽऽवजं ॥ ४३८ ॥
व्याख्या-जातिकुले 'विभापा' विविध भाषणं कार्य, तचैवं-जाति:-ब्राह्मणादिका कुलम्-उग्रादि , अथवा मातुः समुत्था जातिः पितृसमुत्थं कुलं । 'गणः " मल्लादिवृन्द, कर्म-कृष्यादि, 'शिल्लं' तूणोदि-तूणेनसीवनप्रभृति, अथवा 'अनावकम् ' अप्रीत्युत्पादक कर्म इतरतु 'आवर्जकं' पीत्युत्पादकं शिल्पम्, अन्ये त्वाः -अनाचार्योपदिष्टं कमें आचार्योपदिष्टं तु शिल्पमिति । तत्र यथा । साधुः सूचया स्वजातिप्रकटनाजातिमुपजीवति तथा दर्शयतिहोमायवितहकरणे नज्जइ जह सोत्तियस्स पुत्तोत्ति । वसिओ वेस गुरुकुले आयरियगुणे व सूएइ ॥ ४३९ ॥
व्याख्या-साधुभिक्षार्थमटन् ब्राह्मणगृहे प्रविष्टः सस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा तदभिमुखं प्रति स्व नातिप्रकटनाय जल्पति-होमादिक्रियाणामवितथकरणे एष तव पुत्रो ज्ञायते-यथा श्रोत्रियस्य पुत्र इति, यदिवोषित एष सम्यगुरुकुले इति ज्ञायते अथवा सूचयत्येष तव पुत्र आत्मन आचार्यगुणान् , ततो नियमादेष महानाचार्यों भविष्यतीति । तत एवमुक्त स ब्राह्मणो वदतिसाधो ! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साधुश्च मौनेनावतिष्ठते, एतच्च सूचया स्वजातिमकटनम् । अत्र चानेके दोषाः, तथाहि-यदि स ब्राह्मणो भद्रकस्तहि स्वजातिपक्षपाततः प्रभूतमाहारादिकं दापयति, तदपि च जात्युपजीवननिमित्तमिति भग-18 वता प्रतिषिद्धम् , अथ प्रान्तस्तहि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तमिति विचिन्त्य स्वगृहनिष्कासनादि करोति, असूचया तु जात्या-| जीवनं पृष्टोऽपृष्टो वाऽऽहारार्थ स्वजाति प्रकटयति-यथाऽई ब्राह्मण इति, तत्राप्यनन्तरोक्ता एव दोषाः, क्षत्रियादिजातिषपि, एवं कुलादिष्वपि भावनीयम् । एतदेव किञ्चिद्व्यक्तीकुर्वनाह
दीप अनुक्रम [४७६]
wwsaneiorary.org
~260~