SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७१] .→ “नियुक्ति: [४३५] + भाष्यं [३२...] + प्रक्षेपं [9]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र नियमा तिकालबिसएऽवि निमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे आउभए तत्थिमं नायं ॥ ४३५ ॥ ____ व्याख्या-त्रिकालविषयेऽपि । अतीतविषये वर्तमानविषये भविष्यद्विषये च प्रत्येक षड्विधे लाभालाभमुखदुःखजीवितमरणरूपे निमित्ते नियमादोषा भवन्ति, ते च दोषा 'आउभए 'त्ति केचिदात्मविघातिनस्तस्य साधोारणादिहेतव इत्यर्थः, केचिदुभयविघातिनः ये साधोः शेषस्य च जीवस्य धातहेतवः, उपलक्षणमेतत्, केचित्केवळपरविघातिनच, तत्र 'वर्तमाने वर्तमानकालविषये निमित्ने प्रयुज्यमाने 'सद्यः । तत्क्षणं परविघातकारिणीदं वक्ष्यमाणं ज्ञातमुदाहरणं । तदेवाह-- आकंपिया निमित्तेण भोइणी भोइए चिरगयमि । पुव्वभणिए कहं ते आगउ ? रुट्ठो य वडवाए ॥ ४३६ ॥ व्याख्या-कोऽपि ग्रामनायको निजभार्या पश्चान्मुक्त्वा दिग्यात्रां गतः, सा च तद्भार्या केनापि साधुना निमित्तेनावजिता, |ग्रामनायकेन च दूरगतेन चिन्तितं, यथाऽहमेकाकी प्रच्छन्नो गत्वा निजभार्यायावेष्टितमवेक्षिष्ये, सा किं दुःशीला सुशीला? इति । अथ च तदार्यया साधोः सकाशात्तदागमनमवगत्य परिजनः सर्वोऽपि तत्सम्मुखं प्रेषितः, पृष्टश्च भोजकेन परिजनो-यथा भोः! कयं मदागमनमज्ञायि! इति, स पाह-भोगिन्या कथितमिति, साधुश्च तदानी भोजकगृहे समागतो बत्तते, भोगिन्याश्च प्रत्ययपुरस्सरं नायकेन सह यजल्पितं ययेष्टितं यो वाऽनया स्वमो दृष्टो यद्वा शरीरे मपतिलकादि तत्सर्वं कथयन्नास्ते, अत्रान्तरे च समागतो भोजकः,18 कृतश्च तया यथोचित उपचारः, पृष्टा च तेन-कथं त्वया ममागमनमवजम्मे? इति, साऽवादीत-साधुनिमित्तात्, ततस्तेन भणितम् , अस्ति कोऽप्यन्योऽपि प्रत्ययः, सा ततोऽवादी-युष्माभिः सह पूर्व जल्पितं चेष्टितं च यो वा मया स्वमो दृष्टः यश्च मम गुह्यपदेशे 06660000०००००००००००००00000रूककरून दीप अनुक्रम [४७१] अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसुत्ताणि' मूलं एवं सटीकं उभये पुस्तके वर्तते ~258~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy