________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४१८] → "नियुक्ति: [३८८] + भाष्यं [२७...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३८८||
दीप अनुक्रम [४१८]
र्थिनः पापण्डिनः साधून वा समागतानवगम्य तेषामायाधिकतरं जळतण्डुलादि प्रक्षिप्यते सोऽध्ययपूरक इति मिश्रजातादस्य भेदः। अमुमेव भेदं दर्शयति
तंडुलजलआयाणे पुल्फफले सागवेसणे लोणे । परिमाणे नाणतं अज्झोयरमीसजाए य ॥ ३८९ ॥ ___व्याख्या-इह 'व्यत्ययोऽप्यासा 'मिति वचनात्सप्तमी यथायोग षष्ठयर्थे तृतीयार्थे च वेदितव्या, ततोऽयमर्थ:-अध्यवपूरकस्य । मिश्रजातस्य च परस्परं नानात्वं तण्डुलजलपुष्पफलशाकवेसनलवणानाम् 'आदाने' आदानकाळे यत् विचित्रं परिमाणं तेन द्रष्टव्यं, तथाहि । मिश्रजाते प्रथमत एवं स्थाल्यां प्रभूतं जलमारोप्यते, अधिकतराव तण्डुलाः कण्डनादिभिरुपक्रम्यन्ते, फलादिकमपि च प्रथमत एव । प्रभूततरं संरभ्यते, अध्ययपूरके तु प्रथमतः स्वार्थ स्वोकतरं तण्डुलादि गृह्यते, पश्चाद्यावदर्थिकादिनिमित्तमधिकतरं तण्डलादि मक्षिप्यते, तस्मात्तण्डुलादीनामादानकाले यद्विचित्रं परिमाणं तेन मिश्राध्यवपूरकयोनानात्वमवसेयं । सम्पत्यध्यवपूरकस्य कल्प्याकल्प्यविधिमाद
जावंतिए विसोही सघरपासंडि मीसए पूई । छिन्ने विसोही दिन्नंमि कप्पइ न कप्पई सेसं ॥ ३९ ॥ व्याख्या-यावदर्थिक ' यावदपिकमिश्रेऽध्यवपूरके शुद्धभक्तमध्यपतिते यदि तावन्मात्रमपनीयते ततो विशोधिर्भवति, अत एव । च स्वगृहयावदर्थिकमिश्रोऽध्यवपूरको विशोधिकोटिवक्ष्यते, स्वगृहपापण्डिमिश्रे उपलक्षणमेतत् स्वगृहसाधुमिश्रे च शुद्धभक्तमध्यपतिते पूतिर्भवति, सकलमपि तद्भक्तं पूतिदोषदृष्टं भवतीत्यर्थः, तथा विशोधिकोटिरूपे यावदर्थिकाध्यवपूरके छिन्ने यावन्तः कणाः कार्पटिकाद्यर्थ पश्चालिप्ताः तावन्माने स्थाल्पाः पृथकृते सति यद्वा तावन्माने कापटिकादिभ्यो दत्ते सति शेषमुद्धरितं यद्भक्तं तत्साधूनां कल्पते, शेषं पुनः
mitaram.org
~234~