________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३७१||
दीप
अनुक्रम [ ४०० ]
“पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः +वृत्तिः)
-->
“निर्युक्तिः [३७१] + भाष्यं [ २७...] + प्रक्षेपं [ ३...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [४०० ]
मुनि दीपरत्नसागरेण संकलित
व्याख्या - इह स्वगृहमात्र नायकः प्रभुः ग्रामादिनायकः स्वामी चारभय वा स्वामिभटा वा तेऽपि स्वामिग्रहणेन गृह्यन्ते । संयतान् दृष्ट्वा तेषां संयतानामर्थाय 'करुणानां कृपास्थानानां दरिद्रकौटुम्बिकादीनां सम्बन्ध्याऽऽच्छिद्य यद्ददाति तत्साधूनां न कल्पते । एतदेव व्यक्तं भावयति
आहारोव हिभाई जइअडाए उ कोइ अच्छिदे । संखडि असंखडीए तं गिण्हंते इमे दोसा ॥ ३७२ ॥
व्याख्या - यदि कोऽपि स्वामी भटो वा यतीनामर्थाय केषाञ्चित्सम्बन्ध्याहारोपध्यादिकं 'सङ्घच्या' कलहकरणेन 'असङ्खय्या' कळहाभावेन, कोऽपि हि तत्सम्बन्धिनि बलादाच्छियमाने कलहं करोति कोऽपि स्वामिभयादिना न किमपि वक्ति, तत उक्त सङ्घच्या सङ्घड्या बेति, बलादाच्छिय यतिभ्यो ददाति तद्यतीनां न कल्पते । यतस्तद्गृहति यत्ताविमे दोषाः ॥ तानेवाह-
अचियत्तमंतरायं तेनाहड एगऽणेगवोच्छेओ । निच्छुभणाइदोसा तस्स अलंभे य जं पात्रे ॥ ३७३ ॥
व्याख्या— येषां सत्कमाच्छिय बलात् स्वामिना दीयते तेषाम् 'अचियत्तम्' अप्रीतिरुपजायते, तथा तेषाम् 'अन्तरायं ' दीयमानवस्तुपरिभोगहानिः कृता भवति, तथेत्थं साधूनामाददानानां स्तेनाहृतं भवति - अदचादानदोषो भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात् तथा येषां सम्बन्धि स्वामिना बलादाच्छिय दीयते ते कदाचित्मद्विष्टाः सन्तोऽन्यदाऽपि तस्यैकस्य साधोर्भरूपानव्यवच्छेदं कुर्वन्ति तथाऽनेन सम्प्रति बलादस्माकं भक्तादि गृहीतं ततः कालान्तरेऽप्यस्मै न किमपि दातव्यमस्माभिरिति, अथवा सामान्यतः प्रद्वेषमुपयान्ति यथाऽनेन संयतेन बलादस्माकं भक्तादि गृह्यते तस्मात्कालान्तरेण न कस्मायपि संयताय दातव्यमित्यनेकसाधूनां
For Parts Only
~226~