SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३६९|| दीप अनुक्रम [३९८] मूलं [ ३९८ ] मुनि दीपरत्नसागरेण संकलित “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [३६९ ] + भाष्यं [ २७...] + प्रक्षेपं [ ३...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पडियरणपओसेणं भावं नाउं जइस्स आलावो । तन्निब्बंधा गहियं हंदि स मुक्कोसि मा बीयं ॥ ३६९ ॥ व्याख्या --- वसन्तपुरं नाम नगरं तत्र जिनदासो नाम श्रावकः, तस्य भार्या रुक्मिणी, जिनदासस्य गृहे वत्सराजो नाम गोपालः, स चाष्टमे अष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो धृतत्वात्, अन्यदा च साधुसङ्कटको मिक्षायै तत्रागमत्, इतश्च तस्मिन् दिने गोपालस्य सर्वदुग्धादानवारकः, ततस्तेन सर्वा अपि गोमद्दिष्यो दुग्धा महती पारिदुग्धस्यापूर्णा, जिनदासश्व जिनवचनभावितान्तःकरणतया साधुसङ्घाटकं परमपात्रभूतमायातमत्रलोक्य भक्तितो यथेच्छं भक्तपानादिकं तस्मै दत्तवान्, ततो 'दुग्धान्तानि भोजनानी'ति परिभाव्य भक्तितरलितमनस्कतया गोपालस्य दुग्धं बलादाच्छिय कतिपयं ददौ ततः स गोपालो मनसि साधोरुपरि मनाक प्रद्वेषं ययौं, परं प्रभूभयान्न किमपि वक्तुमीशितः, ततस्तत्पयोभाजनं कविषयन्यूनं स्वगृहे नीतवान्, तच्च तथाभूतं न्यून२ मवलोक्य भार्या सरोषं पृष्टवती, किमिति न्यूनमिदं पयोभाजनम् ? इति, ततो गोपेन यथावस्थिते कथिते साऽपि साधुमाक्रोष्टुं प्रावर्त्तत, ३. चेटरूपाणि च दुग्धं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुं महत्तानि तत इत्थं सकलमपि स्वकुटुम्बमा कुलमवेत्य स गोपः सञ्जातसाधुविषयमहाकोपः साधुं व्यापादयितुं चलितवान् दृष्ट्ट भिक्षार्थं परिभ्रमन् कापि प्रदेशे साधुः, ततः प्रधावितो लकुटमुत्पाट्य * साधोः पृष्ठतः, साधुनापि कथमपि पञ्चादवलोकने तं गोपं तथाभूतं कोपारुणनयनमालोक्य परिभावयामासे, नूनमेतस्य दुग्धं बलादा*च्छिय जिनदासेन मह्यं ददे तेन मम मारणार्थमिव कुपित एष समागच्छनुपलक्ष्यते, ततः साधुर्विशेषतः प्रसन्नवदनो भूत्वा तस्यैव सम्मुखं प्रत्यागन्तुं प्रावर्त्तत, वभाण च यथा-भो भोः क्षीरगृहनियुक्तक ! तव प्रभुनिर्बन्धेन मया तदानीं दुग्धमात्तं सम्पति तु गृहाण त्वमात्मीयं दुग्धमिति, एवं चोक्ते सत्युपशान्तकोपः साधुं प्रति स्वस्वभावं प्रकटितवान् यथा भोः साधो ! सुविहित ! तव मारणार्थमह Education Intention For Park Lise Only ~ 224~ 4444444
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy