________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||३६३||
दीप
अनुक्रम [३९२]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [३६३ ] + भाष्यं [ २७...] + प्रक्षेपं [ ३...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ ३९२ ]
मुनि दीपरत्नसागरेण संकलित
भूमिगृहादाववतरणं-प्रवेशः, तत्राघोऽवतरणेन यद्दीयते तदप्युपचारादयोऽवतरणं, तथा 'कुंभादिषु ' कुम्भोष्टिकाप्रभृतिषु यद्वर्त्तते देयं तदुभयम् - ऊर्ध्वाऽयोमालापहतस्वभावं भणितं तीर्थकरादिभिः तथाहि - बृहत्तरो वैस्तर कुम्भादिमध्यव्यवस्थितस्य देयस्य ग्रहणाय येन दात्री पास्पाटनादि करोति तेनोर्ध्वमालापहृतं येन त्वधोमुखं बाहुमतिप्रभूतं व्यापारयति तेनाधोमालापहतं, दोषा अत्रापि पूर्वकद्भावनीयाः । अत्रैवापवादमाह-
दद्दर सिल सोत्राणे पुव्वारूढे अणुधमुक्खित्ते । मालोहडं न होई सेसं मालोहडं होइ ॥ ३६४ ॥
व्याख्या- 'दईर: ' निरन्तर काष्ठफलकमयो निःश्रेणिविशेषः 'शिला' प्रतीता 'सोपानानि ' इष्टकामयान्यवतरणानि, एतान्यारहा यद्ददाति तन्मालापहृतं न भवति, केवलं साधुरप्येपणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादेन भूस्थोऽप्यानीतं गृह्णाति तथा पूर्वारूढः साध्वागमनादग्रतः स्वयोगेन निःश्रेण्यादिना प्रासादोपरि घटितो दाता यद्ददाति साधुपात्र के, कथंभूते ? इत्याहअनुयोत्क्षिप्ते, किमुक्तं भवति ? - भूमिस्थः संयतो दृष्टेरधः पात्रं धारयन् यावत्प्रमाणे उच्चैःस्थाने स्थितो दाता पात्रे हस्तं प्रक्षिप्य ददाति तावत्प्रमाणे पूर्वारूढो यद्ददाति तन्मालापहृतं न भवति, शेषं तु सर्वमप्यनन्तरोक्तं मालापहृतमवसेयम् । इद्दानुञ्चोत्क्षिप्तोयोत्क्षिप्तयोः स्वरूपमाह -
तिरियायय उज्जुगण गिन्हई जं करेण पासंतो । एयमणुच्चुक्खित्तं उच्चुक्खित्तं भत्रे सेसं ॥ ३६५ ॥
व्याख्या - तिर्यग् आयतेन-दीर्घेण 'ऋजुकेन' सरलेन ' करेण' हस्तेन पात्रं दृष्ट्या निभालयन् यद्गृह्णाति तदित्थंभूतं पात्रमनुधोत्क्षिप्तमुच्यते, शेषं पुनरुवोत्क्षिप्तं, इयपत्र भावना - यद्दृष्टेरुपरि बाहुं प्रसार्य देयवस्तुग्रहणाय पात्रं धियते तत्तथा त्रियमाणमुच्चात्क्षिप्तमिति,
Education nationa
For Parks Use Only
~ 222~