________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३६०||
दीप
अनुक्रम [ ३८९]
मूलं [ ३८९ ]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युतेर्मलयगि
रीयावृत्तिः
||१०८||
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [३६० ] + भाष्यं [ २७...] + प्रक्षेपं [ ३...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
द्विन्नदोषे
यक्षदत्तहष्टान्तः
यक्ष दिनेन तस्मायपि तानेव मोदकान् वसुमती दापिता, सा तस्मिन्नेव सिक्कविलगिते घंटे मोदकानादातुमचालीत्, घटे च महोत्समद्रव्य- उद्रमपणानिष्पन्नमोदकगन्धायाणवशतः कथमपि भुजङ्गमः समागतोऽवतिष्ठते, वसुमती चोत्पाव्य पाणी पादाग्रतलभरेण यावन्मोदकपटे क- ० यां १२ उकेलिपडवोपमं करं मक्षिपति तावद्भुजङ्गमः कामुक इव सादरं तं प्रत्यगृह्णात् ततो हा ! दष्टा दष्टेति पूत्कारं कुर्वती भूमौ निपपात, ददृशे च यक्षदिनेन फूत्कारं कुर्वन् दन्दशूकः, ततस्तत्क्षणादेव समाहूताः परममन्त्रवादिनः समानीतानि च नानाविधानि भेषजानि ततोऽद्याप्यार त्रुटितमिति मन्त्रौषधमभावतः सा नीरुम्बभूव, समाजगाम च भूयोऽप्यपरस्मिन् दिने स एव धर्मरुचिः संयतो भिक्षायै, उपालेभे च * यक्षदिनेन यथा दयामधानो धर्मस्तत्किं भोः साधो ! सुविदित तत्र तदानीं सर्पं पश्यतोऽयुपेक्षा प्रावर्त्तिष्ट ?, स प्राह- नाहमद्राक्षं तदानीं दन्दशूकं, केवलमयमस्माकं सार्वज्ञ उपदेशो यथा मा ग्राहिषुः साधवो ! मालापहृतं भिक्षामिति, ततोऽहं प्रतिनिवृत्तः, एवं चोक्ते | यक्षदिन्नः स्वचेतसि चिन्तयामास-अहो ! निरपायो भगवता निश्पादेशि भिक्षूणां धर्मः, य एव चेत्थं निरपायं धर्ममुपदिशति स्म स एव सर्वज्ञो न खलु सुधाभ्यवहारमन्तरेण सुधोद्वार उज्जृम्भते, एवं न यावत्ज्ञेयव्यापिज्ञानमन्तरेणेत्थं सकलकालमनपायिनो धर्मस्यो - * पदेशप्रवृत्तिः, बुद्धिप्रागल्भ्ये हि वचसि प्रागल्भ्यमुपालम्भि तस्मात्स एव सर्वज्ञ इति इत्यं च विचिन्त्य भक्तिवशोच्छलितपुलकजालोपशोभिततनुः सादरं धर्मरुचिश्रमणमवन्दत, वन्दित्वा च जिनप्रणीतं धर्म पप्रच्छ, स च कथयामास सङ्क्षेपतः, ततो जिनप्रणीतवाक्यामृतर● सास्वादतस्तेषामवजगाम सकलमपि मायासूनवीयादिसम्पादितकुवासनामयं गरलं, पश्यति च यथावस्थितानि हेयोपादेयानि वस्तूनि, प्रमोदते च जात्यन्ध इव चक्षुर्लाभे सविशेषतरं ततो मध्याह्ने विशेषतो गुरुसमीपे समागत्य धर्मं श्रुत्वा जातसंवेगो दम्पती अपि प्रवज्यां प्रपेदाते। सूत्रं सुगमं । सम्मत्यस्मिन्नेव जघन्ये माला पहतेऽन्यानपि दोषानभिधित्सुराह
Eucation Internationa
For Pale Only
~ 219~
॥१०८॥
yor