________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:)
मूलं [२२] . "नियुक्ति: [१५] + भाष्यं [...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पृथ्वीपिण्डनिक्षेपे
रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||१५||
पिण्डनियु- व्याख्या-इह साधुभिः सचित्तमिश्रपरिहारद्वारेणाचित्ते भूतलमदेशे यत् स्थान-कायोत्सग्गों विधीयते, यच निषीदनम्-उपवेशनं मलयाग यच्च त्वम्वनं-स्वापः, यश्च उच्चारादीनां पुरीषप्रस्रवणश्लेष्मनिष्ठधूतानामुत्सर्गः, तथा यो घुट्टको-लेपितपात्रमणताकारकः पाषाणो ये च
डगलका:-पुरीपोत्सर्गानन्तरमपानमोज्छनकपाषाणादिखण्डरूपा यश्च लेपो-भोगपुरपाषाणादिनिष्पन्नस्तौम्बकपात्राभ्यन्तरे दीयते, एवमादि ॥९ ॥
बहुधा ' बहुप्रकारम् अचित्तेन पृथिवीकायेन प्रयोजनम् ।। उक्तः सचित्तादिभेदभिन्नः पृथिवीकायपिण्डः, सम्पत्यष्कायपिण्डं सचित्तादिभेदभिन्नमाह
आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चिचो पुण दुविहो निच्छयववहारओ चेव ॥ १६॥
व्याख्या-अप्कायत्रिविधा, तद्यथा-सचित्ती मिश्रोऽचित्तश्च, तत्र सचित्तो द्विधा-निश्यतो व्यवहारतश्च ॥ एतदेव सचित्तस्य निश्रयव्यवहाराभ्यां वैविध्यमुपदर्शयति- . घणउदही घणवलया करगसमुहहहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अगडाई ॥ १७ ॥
व्याख्या-'घनोदधयः नरकपृथ्वीनामाधारभूताः कठिनतोयाः समुद्राः, 'धनवलयाः' तासामेव नरकपृथिवीनां पार्श्ववर्तिहत्ताकारतोयाः ये च 'करकाः' धनोपलाः तथा 'समुद्रहदानां' लवणादिसमुद्रपद्यादिहदानां च बहुमध्यभागे येऽप्कायाः 'अह' चि एप सर्वोप्यष्कायो 'निश्चयसचित्तः' एकान्तसचिचः, शेषस्तु 'अवटादि' अक्टवापीतडागादिस्थः, इहावादिस्थोऽवटादिशब्देनोक्ता, तातस्थ्येन तद्वयपदेशप्रत्तेः, यथा मञ्चाः क्रोशन्तीत्यादौ, तत्रावट: कूपस्तदादिगतोऽप्कायो 'व्यवहारनयस्य' ब्यवहारनयमतेन सचित्तः ।। उक्तः सचित्तोऽकायः, सम्मति मिश्रमाह
दीप अनुक्रम
[२२]
'अप्काय'पिण्डस्य निक्षेपा: वर्णयते
~ 21~