________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३३३||
दीप
अनुक्रम
[३६१]
मूलं [ ३६१]
मुनि दीपरत्नसागरेण संकलित
************
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [३३३] + भाष्यं [ २७...] + प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
सग्गाऽवि यदुविहं घरंतरं नोघरंतरं चैव । तिघरंतरा परेणं घरंतरं तं तु नायव्वं ॥ ३३३ ॥ नोघरंतर ऽणेगविहं वाडगसाहीनिवेसणगिहेसु । काये खंधे मिम्मय कंसेण व तं तु आणेजा ॥ ३३४ ॥ व्याख्या- ' स्वग्रामेऽपि ' स्वग्रामविषयमध्यभ्याहृतं द्विविधं तथथा - गृहान्तरं नोगृहान्तरं च तत्र त्रिगृहान्तरात् परेण त्रीणि गृहाप्यन्तरं कृत्वा परतो यदानीतं तद्दान्तरं, एवं च सति किमुक्तं भवति ? - यद्दत्रयमध्यादानीयते उपयोगच तय)त्र सम्भवति तदाचीर्णमवसेयं, नोगृहान्तरमनेकविधं तच वाटकादिविषयं तत्र 'वाटकः परिच्छन्नः प्रतिनियतः सन्निवेशः 'साही ' वर्त्तनी सैबैका ऽपान्तराले विद्यते न तु गृहान्तरमित्यर्थः ' निवेशनम् ' एकनिष्क्रमणप्रवेशानि दद्यादिगृहाणि 'गृई' केवलं मन्दिरम् एतच सकलमपि वाटका | दिविषय मनाचीर्णमनुपयोगसम्भवे वेदितव्यं तदपि च गृहान्तराख्यं नोगृहान्तराख्यं च नोनिशीथं स्वग्रामाभ्याहृतं प्रतिलाभयितुमीप्सि तस्य साधोरुपाश्रयमानयेत् कापोत्या यदिवा स्कन्धेन, उपलक्षणमेतत् तेन करादिना च यदिवा मृन्मयेन भाजनेन यद्वा कांस्येन || सम्प्रत्यस्यैव स्वग्रामविषयनोनिशीथाभ्याहृतस्य सम्भवमाह
सुन्नं व असइ कालो पगयं व पहेणगं व पासुता । इय एइ काइ घेतुं दीवेइ य कारणं तं तु ॥ ३३५ ॥
व्याख्या - इद साधुर्भिक्षाटन कापि गृहे प्रविष्टः परं तत्तदानीं 'शून्यं' बहिर्निर्गतमानुषमासीत्, यद्वाऽयापि तत्र राध्यते इति 'असन्' अविद्यमानो भिक्षाकालः, यदिवा तत्र प्रकृतं गौरवाईस्वजनभोजनादिकं वर्त्तते, न ततो तदानीं साधवे भिक्षा दातुं प्रपारिता, यदि वा विहृत्य साधोर्गतस्य पश्चात् 'प्रदेणकं लाहनकमागतं तचोत्कृष्टत्वात् किल साधवे दातव्यम्, अथवा तदा श्राविका 'प्रसृप्ता ' शयि
Education International
For Parts Only
~208~
www.ncbrary org