________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३५४] → "नियुक्ति: [३२६] + भाष्यं [२७...] + प्रक्षेपं [R...]" मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३२६||
कान मम गृहे साधुरपि भ्राता समुत्तीर्ण इति परिभवं मंस्यते इति, ततोऽनुकम्पया तस्या एवं गृहे प्रविवेश, भिक्षावेलायां च तया लक्ष्म्या
चिन्तितं-यथैकं तावदयं भ्राता द्वितीयं साधुः तृतीयं प्राघूर्णकः, मम च गृहे कोद्रवकूरा, ततः कथमसावस्मै दीयते?, शाल्पोदनच मम ग्रह न विद्यते, ततो भ्रातृजायाया बन्धुमत्याः सकाशात् कोद्रवोदनपरावर्तनेन शाल्योदनमानीय ददामीति तथैव कृतम्, अत्रान्तरे च। देवदचो भोजनार्थ स्वगृहमागतः, वन्धुमत्या च पप्रच्छे यथाऽय कोदवौदनो जेमितव्यः, तेन चाविज्ञातपरिवर्तनवृत्तान्तेन चिन्तितंयथाऽनया कृपणतया कोद्रवौदनो राद्धो न शाल्योदना, ततस्तां ताडयितुमारेभे, सा च ताब्यमाना पाह-किं मां ताडयसि!, तवैव | भगिनी कोद्रोदनं मुक्त्वा शाल्योदनं नीतवती, धनदत्तस्यापि च भोजनार्थभुपविष्टस्य यः शाल्योदनः क्षेमङ्करस्य दीयमान उद्वरितः । स गौरवेण लक्ष्म्या परिवेपितः, ततस्तेन सा पृष्टा-कुतोऽयं शाल्योदनः !, ततः कथितः सर्वोऽपि तया वृत्तान्तः, श्रुत्वा च तं वृत्तान्त चकोप धनदत्तो-यथा हा! पापे ! किमिति त्वया मानमेकं शाले: पक्त्वा साधवे शाल्योदनो न दत्तो यत्परगृहादानयनेन मम मालिन्यमापादितं, ततस्तेनापि सा ताडिता, साधुना चायं वृत्तान्तो गृहद्वयवर्ती सर्वोऽपि जनपरम्परातः शुश्रुवे, ततो निशि सर्वाग्यपि तानि प्रतिबोधितानि, यथेत्थमस्माकं न कल्पते परमजानता मया गृहीतम् । अत एव च कलहादिदोषसम्भवाद्भगवता प्रतिषिद्धं, ततो जिनप्रणीतं धर्म सविस्तरं कथितवान् , जातः सर्वेषामपि संवेगो, दत्ता च दीक्षा तेषां सर्वेषामिति । सूत्र मुगम, नवरम् 'अवरुप्परसज्झि
लगा' इति लक्ष्मीदेवदत्तौ बन्धुमतीधनदत्तौ परस्परं 'सज्झिलगौं' भ्रातरौ, ते च 'अपि । लक्ष्मीवन्धुमत्यौ अन्नमन्त्रेणं 'ति । अन्योऽन्यमपि सम्बद्ध देवदत्तस्य भगिनी लक्ष्मीर्धनदत्तेन धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता इत्यर्थः, 'पोग्गलिय'त्ति
पौलिकस्य शाल्योदनस्य 'संयतार्थ 'क्षेमङ्करसाधुनिमित्तं परिवर्तनं कृतं, ततः 'संखडं। कलहस्ततः 'बोधिः' प्रव्रज्या, अस्या
दीप अनुक्रम [३५४]
~ 204~