________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३६] .→ "नियुक्ति: [३०८] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३०८||
दीप अनुक्रम [३३६]
पिण्डनियु- व्याख्या-निर्माल्य तीर्थादिगतसप्रभावप्रतिमाशेषा 'गन्धाः' पटवासादयः 'गुलिका ' मुखे प्रक्षेपकस्य स्वरूपपरावादि- उद्गमेषणातेर्मलयगि- कारिका गुटिका 'वर्णक: चन्दनं 'पोतानि' लघुवालकयोग्यानि वस्त्रखण्डानि, आदिशब्दात्कण्डकादिपरिग्रहः, एतानि कार्य कारणो- यां क्रीतरीयावृत्तिःपचारादात्मद्रव्यक्रीतानि, किमुक्तं भवति?–निर्माल्यादिपदानेन परमावर्ण्य यत्ततो भक्तादि गृह्यते तदात्मद्रव्यक्रांतामति । अत्र दोषा- दोषः८
नाह-'गेकन्ने' इत्यादि, निर्माल्यपदानानन्तरं यदि कथमपि दैवयोगतो ग्लानता भवति तहिं 'भवचनस्योड्डादः साधुनाऽहं ग्लानी॥९६॥ किकृत इत्यादि प्रजल्पनतः शासनस्य मालिन्योत्पते, अथ कथमपि 'प्रगुणः' नीरोगो भवति तर्हि स सर्वदा सर्वजनसमक्षं चढकारी भवति ।
यथाऽहं साधुना प्रगुणीकृतोऽतिशयी चासौ साधुः सकलज्ञातव्यकुशला परहितनिरत इत्यादि समक्ष परोक्षं वा सदैव प्रशंसां करोति, तथा
च सत्यधिकरणं-भूयस्तस्याधिकरणप्रवृत्तिः, तादृशीं हि तस्य प्रशंसामाकान्योऽन्यः समागत्य तं साधु निर्माल्यगन्धादि याचते, ततHal|स्तत्मार्थनापरवशाः अधिकरणमपि समारभते । सम्मति परभावक्रीतं विवृण्वन्नाद
वइयाइ मखमाई परभावकयं तु संजयहाए । उप्पायणा निमंतण कीडगडं अभिहडे ठविए ॥ ३०९ ॥
व्याख्या-वजिका' लघुगोकुलम्, उपलक्षणमेतत् , तेन पत्तनादिपरिग्रहः, तत्र जिकादौ 'मङ्खादिः' मङ्ग:-केदारको यः॥ पदमुपदर्य लोकमावर्जयति, आदिशब्दात्तथाविधान्यपरिग्रहः, भक्तिवशात् संयतार्थं यद् घृतदुग्धादेरुत्पादनं करोति कृत्वा च निमन्त्रपति तत्परभावक्रीतं, परेण-मजादिना संयतार्थ भावेन-स्वपटप्रदर्शनादिरूपेण क्रीतं परभावक्रीतम् , इत्थंभूते च परभावक्रीते त्रयो दोषा: ॥१६॥ एकं तावत्क्रीतं, द्वितीयमन्यस्मादन्यस्माद्गृहादानीतमित्यभ्याहृतम्, आनीयानीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितं, तस्मात्तादशमपि साधूनां न कल्पते । एतदेव गाथाद्वयेन स्पष्टयन्नाह
~195~