________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२८८||
दीप
अनुक्रम
[३१६]
मूलं [ ३१६]
मुनि दीपरत्नसागरेण संकलित
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
"निर्युक्तिः [ २८८ ] + भाष्यं [ २७...]
+ प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
अप्पत्तंमि य ठवियं ओसरणे होहिइत्ति उस्सकणं ।
व्याख्या--- स्थापितं विवाहदिनं किलामाप्ते यथाविहारक्रममनागते 'अवसरणे ' साधुसमुदायरूपे भविष्यति, ततो न किमपि मदीयं विवाहसत्कं साधूनामुपकरिष्यतीतिकृत्वा विवाहस्योत्सर्पणं करोति, साधुसमागमकाळ एवं करोतीत्यर्थः । उक्ता बादरा प्रा तिका । सम्प्रति द्विविधाया अप्यवसर्पणोत्सर्पणरूपायाः कर्त्तारं प्रतिपादयति
तं पागडमियरं वा करेइ उज्जू अणुज्जू वा ॥ २८९ ॥
व्याख्या- 'ताम्' अवष्वष्कणोत्य्वष्कणरूपां द्विविधामपि ऋजुः प्रकटं करोति, सकलजननिवेदनेन करोति, अनुजुरितरत् प्रच्छन्नं, यथा न कोऽपि जानातीति भावः तत्र यदि प्रकटं करोति तर्हि तो जनपरम्परात एवं ज्ञात्वा परिहरन्ति अथाप्रकटं तहिं निपुणं शोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तदा न कविदोषः, परिणामस्य शुद्धत्वात् ॥ अथ किमर्थं चादरमवष्वष्कणादिकं करोति ?, तदाह-
मंगलहेडं पुन्नट्टया व ओसक्कियं दुहा पगयं । उस्सक्कियपि किंति य पुढे सिहे विवज्जति ॥ २९० ॥
व्याख्या - 'प्रकृत' विवाहादिकं 'द्विधा' द्वाभ्यां प्रकाराभ्यामवष्वष्कितं भवति, तद्यथा-'मङ्गलहेतो: ' बीवादे गृहस्य साधुचरणैः स्पर्शनं तेभ्यो दानं च मङ्गलायेतिकृत्वा यद्वा-पुण्यार्थम्, एवमुत्वष्कितमपि द्विधा, ततो निपुगपृच्छं किमिदम् ? इति पृष्ठे गृहस्थेन च यथावस्थिते कथिते तद्वीवाहसत्कं परिहरन्ति मा भूद्धादरमाभृतिकादोषानुषङ्ग इति । ये तु न परिहरन्ति तेषां दोषमाह-
Eaton Internation
For Park Use Only
~188~