________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२५९||
दीप
अनुक्रम [ २८३]
मूलं [ २८३]
मुनि दीपरत्नसागरेण संकलित
********
◆◆◆◆◆◆◆◆000
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [२५९] + भाष्यं [ २३...] + प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
व्याख्या – इन्धनाग्न्यवयवाः सूक्ष्मा ये धूमेन सहादृश्यमाना गच्छन्ति, तथा धूमो बाष्पोऽन्नगन्धव, एते सर्वेऽपि प्रसरन्तः किल | सकलमपि लोकं स्पृशन्ति, तत्पुद्गलानां सकलमपि लोकं यावद्गमनसम्भवात् ततस्तवाभिप्रायेण सर्वमपि पूतिरापद्यते, तथा च सति साधोः कथं शुद्धिः ? इति । अत्र परः प्रागुक्तविरोधं दर्शयन स्वपक्षं समर्थयति-
नणु सुहूमपूइयस्सा पृथ्वदिट्ठस्सऽसंभवो एवं । इंघणधूमाईहिं तम्हा पूइत्ति सिद्धमिणं ॥ २६० ॥
व्याख्या --- ननु यदीन्धनाऽवयवादिभिः पूतिर्न भवेत्, एवं सति तर्हि पूर्वोद्दिष्टस्य 'भावंमि उ वायरं सुमं' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः प्राशोति, अन्यस्य सूक्ष्मपूतेरभावात्, तस्मात्सिद्धमिदं यदुत इन्धनधूमादिभिः सम्मिश्रं पूतिः सूक्ष्मपूतिरिति । अत्र गुरुराइचोयग इंघणमाईहिं चउहिंवी सुहुमपूइयं होइ । पन्नवणामित्तमियं परिहरणा नत्थि एयरस ॥ २६१ ॥
व्याख्या' हे चोदक !' प्रेरक ! ' इन्धनादिभिः ' इन्धनाग्न्यवयवधूमवाष्पगन्धैश्चतुर्भिरपि स्पृष्टं सूक्ष्मपूतिर्भवति, नात्र कश्चिद्विवादः, एनामेव च सूक्ष्मप्रतिमधिकृत्य प्रागुक्तं 'भावंमि उ बायरं सुहुमं' इति, केवलमिदं सूक्ष्मपूतित्वेन भणनं प्रज्ञापनामात्रं, परिहरणं पुनस्तस्या:-- सूक्ष्मपतेर्नास्ति, अशक्यत्वात् । एतदेव प्रपञ्चयति
सज्झमसज्यं कज्जं सज्यं साहिज्जए न उ असज्यं । जो उ असज्झं साहइ किलिस्सइ न तं च साहेई ॥ २६२॥
व्याख्या -- इह द्विविधं कार्य - साध्यमसाध्यं च शक्यमशक्यं चेत्यर्थः, तत्र साध्यं साध्यते न त्वसाध्यं यस्त्वसाध्यं युष्मादृशः | साधयति स नियमात् क्लिश्यते, न च तत्कार्ये साधयति, अविद्यमानोपायत्वात्, एषोऽपि चानन्तरोक्तः सूक्ष्मपूतिरशक्यपरिहारः, ततो न परिहियते । सम्प्रति परो 'बायरं मुहुमं 'ति समर्थयमानोऽपरं सूक्ष्मपूर्ति तस्य परिहरणं च शक्यं प्रतिपादयति
Education Intern
For Pale Only
~ 174~
wlanerary org