________________
आगम
(४१/२)
प्रत
गाथांक नि/भा/प्र
||||
दीप
अनुक्रम
[१४]
मूलं
मुनि दीपरत्नसागरेण संकलित
4❖❖❖❖04
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
Education Internation
८०
→ “निर्युक्तिः [७] + भाष्यं [७] + प्रक्षेपं आगमसूत्र [४१ / २ ], मूलसूत्र [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
इको उ असन्भावे तिण्हं ठवणा उ होइ सम्भावे । चित्तेसु असम्भावे दारुअलेप्पोबले सियरो ॥ ७ ॥ ( मा० ) व्याख्या - एकोऽक्षो वराटकोऽङ्गुलीयकादिर्वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना 'असद्भावे 'असद्भावविषया, अ सद्भांचिकीत्यर्थः तत्र पिण्डाकृतेरनुपलभ्यमानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणात् । यदा तु त्रयाणामक्षाणां वराटकानामङ्गुली यकादीनां वा परस्परमेकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना 'सद्भावे' सद्भाविकी, तत्र पिण्डाकृतेरुपलभ्यमानत्वात्, त्रयाणां चेत्युपलक्षणं तेन द्वयोरपि बहूनां चेत्यपि द्रष्टव्यं । तथा 'चित्रेषु' चित्रकर्मसु यदैकविन्द्रा लिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, यदा तु चित्रकर्मस्वपि अनेकविन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्घातात्मक पिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतेस्तत्र दर्शनात् । २ तथा दारुकलेप्योपलेषु पिण्डाकृतिसम्पादनेन या पिण्डस्य स्थापना स 'इतर' सद्भावस्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ तदे ४ वमुक्तः स्थापनापिण्डः सम्प्रतिद्रव्यपिण्डस्यावसरः, स च द्विधा-आगमतो नोआगमतञ्च तत्राऽगमतः पिण्डशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा, तद्यथा - ज्ञशरीरद्रव्यपिण्डः भव्यशरीरद्रव्यपिण्डः ज्ञशरीर भव्यशरीरव्यतिरिक्तद्रव्यपिण्डथ, तत्र पिण्डशब्दार्थज्ञस्य यच्छरीरं सिद्धशिलातकादिगतमपगतजीवितं तद् भूतपिण्डशब्दार्थ परिज्ञानकारणत्वात् ज्ञशरीरद्रव्यपिण्डः, यस्तु बालको नेदानीमवबुध्यते पिण्डशब्दार्थम् अब चावश्यमायत्यां तेनैव शरीरेण परिवर्द्धमानेन भोत्स्यते स भावपिण्डशब्दार्थ परिज्ञानकारणत्वाद भन्यशरीरद्रव्यपिण्डः । ज्ञशरीर भव्यशरीरव्यतिरिक्तं तु द्रव्यपिण्डं निर्युक्तिकृदाह
तिविहो उ दव्वपिंडो सच्चित्तो मीसओ अचित्तो य । एक्केकरस य एतो नव नव भेआ उ पत्तेयं ॥ ८ ॥
For Parata Lise Only
~ 16~