________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||२३५||
दीप
अनुक्रम [२५८]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
+ प्रक्षेपं " ० आगमसूत्र [४१ / २ ], मूलसूत्र [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
“निर्युक्तिः [२३५] + भाष्यं [२३...]
मूलं [२५८] मुनि दीपरत्नसागरेण संकलित
तंत्र यदा कल्पते यंदा च न तदाह-' जत्थे 'त्यादि, यत्र देये वस्तुनि यतीनामप्यविशेषेण निर्देशो भवति यथा ये केचन गृहस्था अगृहस्था वा भिक्षाचरा यदिवा ये केचित्पाखण्डिनो यद्वा ये केचन श्रमणास्तेभ्यो दातव्यमिति तत्परिहरन्ति यत्र तु यतीनामेव विशेषेण निर्देशो यथा यतिभ्यो दातव्यमिति तत्परिहरन्त्येव नात्र कश्चित्सन्देह इति तत्पृथग्विशेषेण नोक्तं, यदि पुनर्गृहस्थेभ्य एव दीयतां यदिवा चरकादिभ्य एव पाखण्डिभ्यो न शेषेभ्यस्तदा कल्पते, अपि च
संदिरसंत जो सुइ कप्पए तरस सेसए ठवणा । संकलिय साहणं वा करेंति असुर इमा मेरा ॥ २३६ ॥ व्याख्यापयन्नाद्याप्यौदेशिकं जातं वर्त्तते केवळं तदानीमेवोदिश्यमानं वर्त्तते, यथा इदं देहि मा शेषमित्यादि, वत्सन्दिश्यमानम्अर्थिभ्यो दानाय वचनेन सङ्कल्प्यमानं यः साधुः शृणोति तस्य तत्कल्पते तदैव दोषाभावात्, तदपि च उद्दिष्टदेशिकादि द्रष्टव्यं न कृतं कर्म च यत उक्तं मूलटीकायाम् – “अत्र चायं विधिःसंदिस्त जो सुणइ साहु उद्देसुदेसयं पहुंच, न य कडकम्माई, तं कप्पए तदैव दोषाभावादिति । यस्तु सन्दिश्यमानं न शृणोति तस्य न कल्पते, कुतः ? इत्याह--' उवगति स्थापनादोषात् स च निर्गतः सन्नन्येभ्यः साधुभ्यो निवेदयति, तथा चाह- 'सङ्कलिए'त्यादि 'अश्रुते' शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाचीर्णा मर्यादा, यदुत संकुलिकया एकः सङ्घाटको यस्मै कथयति सोऽप्यन्यस्मावित्येवंरूपया 'साहूणं' कथनं करोति, वाशन्दो यदि साधवो बहुप्रमाणास्तदेकस्यावस्थानमिति सूचनार्थः, स सर्वेभ्यो निवेदयति, यथा माऽस्मिन् गृहे वाजिपुः, अनेषणा वर्त्तत इति । एवमपि यैः सङ्घटकैः धर्मपि न ज्ञातं भवति तेषां परिज्ञानोपायमाह-
मा एयं देहि इमं पुढे सिद्धमि तं परिहरति । जं दिन्नं तं दिनं मा संपइ देहि गेव्हंति ॥ २३७ ॥
Education Interation
For Para Use Only
~164~