________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२१९||
दीप
अनुक्रम
[२४१]
मूलं [ २४१]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युतेर्मलयगि रीयाहृत्तिः
॥ ७७ ॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [२१९] + भाष्यं [ २२...]
+ प्रक्षेपं " ०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
दनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावुद्धरितं. मोदकचूयादि योऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्मेत्यभिधीयते । एकैकस्मिन उद्दिष्टादिके भेदे 'चतुष्कको ' वक्ष्यमाणञ्चतुः सङ्ख्यो भेदो भवति, त्र्यश्वतुर्भिर्गुणिता द्वादश, ततो विभागौदेशिकं द्वादशधा । सम्प्रत्योचौदेशिकस्य पूर्व स्थाप्यतया मुक्तस्य प्रथमतः सम्भवमाह - जीवा कवि ओमे निययं भिक्खावि कइवई देमो । हंदि हु नत्थि अदिन्नं भुज्जइ अकयं न य फलेई ॥ २२० ॥
व्याख्या -- इह दुर्भिक्षानन्तरं केचिद्गृहस्था एवं चिन्तयन्ति - 'कथमपि महता कष्टेन जीविताः ' अयमे' दुर्भिक्षे ततः 'नियतं प्रतिदिवसं कतिपया भिक्षा दद्मो यतः 'हु' निश्चितं 'हन्दी 'ति स्वसम्बोधने नास्त्येतद् यदुत भवान्तरेऽदत्तमिह जन्मनि भुज्यते, नापीह भवेऽकृतं शुभं कर्म्म परलोके फळति, तस्मात्परलोकाय कतिपयभिक्षादानेन शुभं कर्मोपार्जयाम इत्योयौदेशिकसम्भवः । सम्प्रत्योघौदेशिकस्वरूपं कथयति —
सा उ अविसेसि चिय मियंमि भत्तंनि तंडुले छुहइ । पासंडीण गिहीण व जो एहिइ तरस भिक्खट्टा ॥२२॥ व्याख्या - तुगृनायिका योषित प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते तावत्यमाण एवं भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य 'भिक्षार्थी' मिक्षादानार्थम् 'अविशेषितमेव एतावत्स्वार्थमेतावच भिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलान् अधिकतरान् प्रक्षिपति, एतदोघौदेशिकम् । अत्र परस्य पूर्वपक्षमाशङ्कयोत्तरमाह
छउमत्थोघुस कहं वियाणाइ चोइए भणइ । उवउत्तो गुरु एवं गिहत्यसदाइ चिहाए ॥ २२२ ॥
Internationa
For Pale Only
~157~
औदेशिके द्वादशधा विभागौ ०
॥ ७७ ॥