________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१९०] → “नियुक्ति: [१६८] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६८||
व्याख्या-यथाऽशनस्याधाकम्मणः कथानकसूचनेन सम्भव उक्तस्तथा पानस्याप्याधाकर्मणो वेदितव्यः, कथानकमपि तथैव, केवलमयं विशेषः-कचिद्धामे सर्वेऽपि कूपाः क्षारोदका आसीरन् , क्षारोदका नामामलकोदका विशेषाः, न स्वत्यन्तक्षारजला:, तथा सति ग्रामस्याप्यवस्थानानुपपत्तेः, ततस्तस्मिन् लवणावटे क्षेत्रे क्षेत्रप्रत्युपेक्षणाय साधवः समागच्छन् , परिभाषयन्ति स्म च यथाऽऽगम सकलमाप क्षेत्र, ततस्तन्त्रिवासिना श्रावकेण सादरमपरुध्यमाना अपि साधवो नावतिष्ठन्ते, ततस्तन्मध्यवर्ती कोऽपि ऋजुकोऽनवस्थानकारणं पृष्टः, स च यथावस्थित तस्मै कथयामास-यथा विद्यन्ते सर्वेऽप्यत्र गुणाः, केवलं क्षारं जलमिति नावतिष्ठन्ते, ततो गतेषु तेषु साधुपु स मधुरोदक
कूपं खानितवान् , तं खानयित्वा लोकमचिजनितपापभयाद् फलकादिना स्थगितमुखं कृत्वा तावदास्ते यावत्ते वाज्ये वा साधवः समाकाययुः, समागतेषु च साधुपु मा मम गृहे केवले आधाकम्भिकशङ्का भूदिति प्रतिगृहं तन्मधुरमुदकै भाजितवान् , ततः पूर्वोक्तकधानकप्रकारेण|
साधवो बालादीनामुल्लापानाकर्पोधाकम्मति च परिज्ञाय तं ग्राम परिहतवन्तः, एवमन्यत्राप्याधाकर्मपानीयसम्भवो द्रष्टव्यः, तेऽपि च । बालाघुल्लापविशेषैः परिकलय्य कथानकोक्तसाधव इव परिहरेयुरिति । सूत्रं सुगमम् । सम्पति खादिमस्खादिमयोराधाकर्मणोः सम्भवमाइकक्कडिय अंबगा वा दाडिम दक्खा य बीयपूराई । खाइमऽहिगरणकरणंति साइमं तिगडुगाईयं ॥ १६९ ॥
व्याख्या-कर्कटिका' चिर्भटिका 'आम्रकाणि' चूतफलानि, दाडिमानि द्राक्षाश्च मतीताः, बीजपूरकादिकम्, आदिवाबदाकपित्थादिपरिग्रहः, एतानाश्रित्य खादिमविषये 'अधिकरणकरणं भवेत् ' पापकरणं भवेत् , एतानि साधनां शालनकादिकार्येषु प्रयुज्यन्ते || इति तेषां वपनादि कुर्यादिति भावः । तथा 'त्रिकटुकादिकं ' मुण्ठीपिप्पलीमरिचकादिकमाश्रित्य स्वादिमे अधिकरणकरणं भवेत, साधू
दीप अनुक्रम [१९०]
~ 132~