________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१८१] → “नियुक्ति: [१५९] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
आधाकर्मणि कित दातद्वार
प्रत गाथांक नि/भा/प्र ||१५९||
दीप अनुक्रम [१८१]
पिण्डनियु-पामर्थाय कृतं कल्पते, ये तु चौरादिमुपितरजोहरणादिलिङ्गाः साधवस्तेषामर्थाय कृतं न कल्पते, द्रव्यलिङ्गापेक्षया साधर्मिकत्वाभावेऽपि तमलयागि- भावतश्चरणसाधर्मिकत्वात् , लिङ्गतः साधर्मिका न प्रवचनतो निवाः ते यदि लोके निवत्वेन ख्यातास्ततस्तेषामर्थाय कृतं कल्पते. रायाटत्ति अन्यथा न, न प्रवचनतो न लिङ्गतः तीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, तदेवं प्रथमचतुभद्रिकामधिकृत्य कल्प्याकल्प्यविधिरुक्तः,
एतदनुसारेण च शेषास्वपि चतुर्भङ्गिकामु विज्ञेया, सच प्रागेव प्रत्येकं दर्शितः । सर्वत्राप्ययं तात्पर्यार्थीऽवधारणीयः-यदि तीर्थकराः प्रत्येकबुद्धा निवाः श्रावका वा तर्हि तेषामर्थाय कृतं कल्पते साधूनामर्थाय कृतं न कल्पते । तदेवमुक्तः करप्याकल्प्यविधिः, तदुक्तौ च आहाकम्मियनामे 'त्यादिमूलद्वारगाथायां 'कस्स बाबी 'ति व्याख्यातं, सम्मति 'किं वावी 'ति व्याचिख्यासुराहकिंतं आहाकम्मति पुच्छिए तरसरूवकहणत्थं । संभवपदारसणत्थं च तरस असणाइयं भणइ ।। १६०॥
व्याख्या-किं तदाधाकर्म इति शिष्येण पृष्टे 'तत्स्वरूपकथनार्थम् ' आधाकर्मस्वरूपकथनार्थ तस्य ' आधाकर्मणः सम्भवप्रदर्शनार्थं च 'अशनादिकम् ' अशनपानखादिमस्वादिमं गुरुर्भणति, इयमत्र भावना-अशनादिस्वरूपमाधाकर्म-अशनादावेच चाधाकर्मजाण: सम्भवः, ततो गुरुः किमाधाकम् इति पृष्टः सनशनादिकमेव वक्ति, तथा च शय्यम्भवमूरिराधाकर्म दर्शयन् पिण्टेपणाध्ययने|ऽशनादिकमभिधत्ते, तद्यथा-" असणं पाणगं चेव, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणवा पगडं इमं ॥१॥ तं भवे भत्तपार्ण तु, संजयाण अकप्पियं । दंतियं पडियाइकरखे, न मे कम्पइ तारिसं ॥२॥" इति । सम्पत्यशनादिकमेव व्याचष्टे
१ अशनं पानकमेव खाद्य खाद्यं तथा । यजानीयाच्छणुयाद्वा श्रमणार्थ प्रकृतमिदम् ॥ १॥ तवेदतपानं तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ २॥
~127~