________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
|| १६१ |
दीप
अनुक्रम [१८३]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) प्रक्षेपं "
-->
“निर्युक्तिः [१६१] + भाष्यं [ २२...]
+
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [१८३]
मुनि दीपरत्नसागरेण संकलित
Jin Eucator
सालीमाइ अबडे फलाइ सुंठाइ साइमं होइ ।
व्याख्या - शाल्यादिकमशनम्, अवट इति वापिकूपतडागाद्युपलक्षणं, ततः कूपत्रापीतडागादो यज्जलं तत्पानं, तथा 'फलादि ' | फलं- नालिकेरादि, आदिशब्दाचिञ्चिणिकापुष्पादिपरिग्रहस्तत् खादिमं, शुण्ठ्यादिकं स्वादिमं तत्र शुण्ठी प्रतीता, आदिशब्दाद हरीतक्यादिपरिग्रहः । तदेवं व्याख्यातान्यशनादीनि सम्मत्येतेष्वेवाधाकरूपेषु प्रत्येकं भङ्गचतुष्टयमाह-
तरस कडनिट्ठियमी सुद्धमसुद्धे य चत्तारि ॥ १६१ ॥
व्याख्या— तस्येति प्रस्तावात् साधोरर्थाय ' कृतमित्यत्र बुद्धावादिकर्मविवक्षायां कप्रत्ययः, ततोऽयमर्थः कर्तुं प्रारब्धं, तथा तस्य साधोरर्थाय 'निष्ठितं ' सर्वथा प्रासुकीकृतमिति, अत्र विषये 'चत्वारि' इति चत्वारो भगा भवन्ति, तत्र प्रथम एष एव भङ्गः तस्य कृतं तस्य निष्ठितं द्वितीयस्तस्य कृतमन्यस्य निष्ठितं तृतीयोऽन्यस्य कृतं तस्य निष्ठितं चतुर्थोऽन्यस्य कृतमन्यस्य निष्ठितं । तत्र प्रथमो व्याख्यातो द्वितीयादीनां तु भङ्गानामयमर्थः- पूर्व तावत्तस्य साधारर्थाय कर्तुमारब्धं ततो दातुः साधुविषयदानपरिणामाभावतोऽभ्यस्य- आत्मनः स्वपुत्रादेर्वाऽर्थाय निष्ठां नीतं, तथा प्रथमतोऽन्यस्य पुत्रादेरात्मनो वाऽर्थाय कर्तुमारब्धं ततः साधुविषयदानपरिणामभावतः साधोरर्याय निष्ठां नीतं, तथा प्रथमत एवान्यस्य निमित्तं कर्तुमारब्धमन्यस्यैव च निमित्तं निष्ठां नीतम्, एवमशने पाने खादिमे स्वादिमे च प्रत्येकं चत्वारश्रुत्वारो भङ्गा भवन्ति, तत्र 'सुद्धममुद्धे य'त्ति आर्षत्वात् शुद्धावशुद्धौ चेति द्रष्टव्यं तत्र शुद्धौ -साधोरासेवनायोग्यौ, तौ च द्वितीयचतुभङ्गौ, तथाहि क्रियाया निष्ठा प्रधाना, ततो यद्यपि प्रथमतः साधुनिमित्तं क्रिया प्रारब्धा तथापि निष्ठामन्यनिमित्तं नीतेति द्वितीयो भङ्गः साधोः कल्पते, चतुर्थस्तु भङ्गः शुद्ध एव, न तत्र विवादः, अशुद्धी - अकल्पनीयों, तौ च प्रथमतृतीयौ, तत्र प्रथम एकान्तेनाशुद्ध एव साध्वर्य
For Parts Only
~128~
jonary.org