________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||१५६||
दीप
अनुक्रम [१७८]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
+ प्रक्षेपं " • आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
“निर्युक्ति: [१५६] + भाष्यं [ २२...]
मूलं [ १७८ ]
मुनि दीपरत्नसागरेण संकलित
श्रावकाणां निवानां चार्थाय कृतं कल्पते न यतीनां २, चरणतः साधमिका अभिग्रहतथ समानचरणाभिग्रहा यतयः, अत्र न कल्पते ३, न चरणतो नाप्यभिग्रहतः विसदृशाभिग्रहचरणाः साधवों विसदृशाभिग्रहाः श्रावकनिवाथ, अत्र कल्प्या कल्प्यभावना द्वितीयभङ्ग इव ४, चरणभावनयोरियं चतुर्भङ्गिका-चरणतः साधर्मिका न भावनातः भावनातः साधर्मिका न चरणतः चरणतः साधर्मिका भावनातच न चरणतो नापि भावनातः अस्या उदाहरणान्यतिदेशत आह
एवं तु भावणासुवि
व्याख्या—यथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावनास्वप्युदाहर्त्तव्यं तचैवं चरणतः साधर्मिका न भावनातः समानचरणविभिन्नभावना यतयः १, भावनातः साधर्मिका न चरणतः समानभावना निहवाः श्रावका विभिन्नचरणा यतपथ २, चरणतः | साधर्मिका भावनातच समानचरण भावना यतयः ३, न चरणतो नापि भावनातो विसदृशचरण भावनाः साधवो विसदृशभावनाः श्रावका निवास ४, अत्र चतुर्ष्वपि भङ्गकेषु कल्प्या कल्प्यविधिः प्रागिव । तदेवं चरणविषयेऽपि द्वे चतुर्भङ्गिके उक्ते, सम्प्रत्यभिग्रह भावनयोचतुर्भङ्गिकां वक्तुकाम आइ
वोच्छं दोपहंतिमाणित्तो ॥ १५६ ॥
व्याख्या - इत ऊर्ध्वं द्वयोरन्तिमयोः - अभिग्रहभावनाळक्षणयोः पदयोश्चतुर्भङ्गिकामुदाहरणतो वक्ष्ये । तत्र तयोरियं चतुर्भङ्गिका| अभिग्रहतः साधर्मिका न भावनातः, भावनातः साधर्मिका नाभिग्रहतः, भावनातः साधर्मिका अभिग्रहतथ, नाभिग्रहतो नापि भावनातः तत्राद्यं भङ्गद्वयमुदाजिहीर्षुराद -
Ja Education International
For Parts Only
~ 124~