SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक |||| दीप अनुक्रम [3] आवश्यकहारिभ श्रीया ॥४९४ ॥ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [ गाथा- १], निर्युक्ति: [१०५७], भाष्यं [१९५] णामं १ ठवणा २ दविए ३ खिते ४ काले ५ भवे अ ६ भावे अ ७ । पज्जवलोगे अ ८ तहा अडविहो लोगणिक्खेवो ॥ १०५७ ॥ व्याख्या - नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलो को भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ॥ व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे स्वमरूवी सपएसमप्पए से अ । जाणाहि दव्वलोगं णिच्चमणिचं च जं दव्वं ॥ १९५ ॥ ( भा० ) व्याख्या - जीवाजीवावित्यन्त्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ- रूप्यरूपिभेदाद्, आह च- 'रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः- संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यों, तथा चाह-'सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्र| देशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा द्रव्यतः परमाणुरप्रदेशो द्व्यणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेक समय स्थितिर्भावतोऽप्येकानेक गुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते- इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, २ चतुर्वि शतिस्तवाध्यलोकनिक्षेपः ~991~ ||४९४ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः 'लोक' शब्दस्य अष्टविध निक्षेपा:
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy