________________
आगम (४०)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [२], मूलं [-] / [गाथा - १], निर्युक्तिः [ १०५६..], भाष्यं [१९४...]
लोगस्सुजोगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चडवीसंपि केवली ॥ १ ॥ ( सूत्रम् ) व्याख्या अस्य, तलक्षणं चेदं 'संहिता चेत्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयं - 'लोगस्सुज्जोय गरे' इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयि प्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थ:-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह | तावत्पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं १ - उद्योतकरणशीला उद्योतकरास्तान, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः उक्तं च- "दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानं वा तीर्थं धर्मतीर्थं तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामईन्तीत्यर्हन्तस्तानर्हतः, कीर्तयिष्यामीति स्वनामभिः स्तोप्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाजि पदानि तेषु दर्शित एवं साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका निर्युक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च- "अक्ख लियसंहियाई वक्खाणचडकए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिवित्थरत्थो इमो होइ ॥ १ ॥ चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह—
१] अवलितसंहितादी व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिक नियुक्तिजिस्तरार्थोऽयं भवति ॥ १ ॥
मुनि दीपरत्नसागरेण संकलित
मूलसूत्र 'लोगस्स' स्य आरम्भः, तस्य प्रथम-गाथायाः पद-व्याख्या:
आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~990~