________________
आगम
(४०)
प्रत
सूत्रांक
[..]
दीप
अनुक्रम
[२..]
आवश्यक हारिभद्रीया
॥४९२॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययन [२], मूलं [२...] / [गाथा - ], निर्युक्ति: [ १०५६..], भाष्यं [१९२]
इत्यर्थः तथाहि किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्धयन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह - 'अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, 'इदमिति यद् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-'षड्जीवहितं जिना ब्रुवते' पण्णां पृथिवीकायादीनां हितं जिना:- तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते । किं च षड्जीवहितमित्यत आह
छजीवका संजमुदव्यथए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुष्फाईअं न इच्छति ॥ १९३॥ (भा०)
व्याख्या- 'पजीवकायसंयम' इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः-सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः असौ हितं यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' पड्जीवकायसंयमः, किं ? - 'विरुध्यते' न सम्यकू संपद्यते, 'कृत्स्नः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थे, ते किम् ?, अत आह-'पुष्पादिक' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यच्चोकं- 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्व| स्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीर्त्याद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानारसमारम्भा' इति न्यायात् भावस्तव एव
२ चतुावशतिस्तवास्तवनिक्षेपः
~987 ~
॥४९२॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः