SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [२] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], निर्युक्ति: [ १०५४], भाष्यं [१८९...] पादेये हेय इत्यर्थः शब्दः खल्लूभयोर्ग्रहीतव्या ग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः- ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये व ज्ञात एव नाज्ञाते 'अत्थमिति अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'जइअब मेव'ति अनुखारलोपाद् यतितव्यम् 'एवम्' अनेन क्रमेणैहिकामुष्मिक फलप्रात्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः इत्थं चैतदङ्गीकर्तव्यं सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्- "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ १ ॥” तथाऽऽमुष्मिक फलप्राप्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्- “पढमं णाणं तओ दया, एवं चिहइ सबसंजए । अन्नाणी किं काहिति किं वा णाहिति छेय पावगं ? ॥ १ ॥” इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकर गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः - "गीयैत्थो य विहारो वितिओ गीयत्थमीसओ भणिओ । एत्तो तइयविहारो णाणुण्णाओ जिणवरेहिं ॥ १ ॥” न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्धानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्ट तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजा ३ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः अज्ञानी किं करिष्यति ? किंवा ज्ञास्यति छेकं पापकं (वा) १ ॥ ३ ॥ २ गीतार्थच बिहारो द्वितीयो गीतार्थमिश्रको भणितः । नाभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ १ ॥ For Funny मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~980~ ibay.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy