________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [२]
आवश्यकहारिभद्रीया
॥४८९॥
Jus Educate
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:)
अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्तिः [१०५४], भाष्यं [१८९...]
यते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधान मैहिकामुष्मिकफलप्राप्ति कारणमिति स्थितम् । 'इति जो उवएसो सो नयो नामं'ति 'इति' एवमुक्तेन न्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्व सामायिक श्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वान्नेच्छति, गुणभूते चेच्छतीति गाथार्थः ॥ १०५४ ॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं - क्रियैव प्रधानमैहिकामुष्मिकफलप्राधिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह - 'णायंमि गिव्हिय वे' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्याज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिक फलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तम्- "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १ ॥” तथाऽऽमुष्मिकफलप्रात्यर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितं यत उक्तम्- "चेइयकुलगणसंघ आयरिआणं च पचयण सुए य । सधेसुवि तेण कथं तवसंजममुज्जमंतेणं ॥ १ ॥ इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगमः-- "सुबहुपि सुयमहीयं किं काहि चरणविप्पमुक्करस ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ १ ॥”
१ चैत्यकुलगणसंधेषु आचायें प्रवचने श्रुते च सर्वेष्वपि तेन कृतं तपःसंयमे उद्यच्छता ॥ १ ॥ २ सुवपि श्रुतमधीतं किं करिष्यति विप्रमुक्तचरणस्य है। अन्धस्य यथा प्रदीप्ता दीपशतसहख कोट्यपि ॥ १ ॥
For Parts Only
नयविचार. वि० १
~981~
॥४८९ ॥
incibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः