SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक"- मूलसूत्र अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०३१], भाष्यं [१८५...] (४०) प्रत सूत्रांक व्याख्या-इह सामं समं च सम्यक् 'इगमवि' देशीदै कापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽहसामायिकस्यकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थापनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, । तेषा' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चाय-नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः ॥ तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह• महुरे'त्यादि, इहौघतो मधुरपरिणामं द्रव्यं-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यकू क्षीरखण्डयुक्तिः क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशनं द्रव्येकम्, अत एवाह-'एयाई तु दवमित्ति एतान्युदाहरणानि | द्रव्यविषयाणीति गाथाद्वयार्थः ॥ १०३१ ॥ साम्प्रतं भावसामादि प्रतिपादयन्नाहआओवमाइ परदुक्खमकरणं १ रागदोसमज्झत्थं नाणाइतिग ३ तस्साइ पोअणं ४ भावसामाई ॥१०३२।। । व्याख्या-आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति-11 आरमनीव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम् अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽsत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्ष-18 प्रसाधकत्वादिति भावना, तस्य' इति सामादि सम्बध्यते, आत्मनिप्रोतनम् आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽहा + देशीपदे "परदुःखाकरणं प० । इत्यत एवाह-'भावसामाई' भावसामादीनि प्रतिपत्तव्यामीति प्र. दीप अनुक्रम wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 950~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy