________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [१००७], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
नीयाः, यतस्ते न सर्वेऽहंदादयः, किं तर्हि १, केचिदहन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतव्यतिरिकाः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्या
भिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्राप-10 इणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पश्च
विध एव नमस्कारः, खलुशब्दस्यावधारणार्थत्वात्, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा-हेतुनिमित्त भवति सिद्ध' इति, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः 'मग्गे अविप्पणासो'त्ति इत्यादि तन्निमित्तं चोपाधिभेदाद्भवति सिद्धः पश्चविध इति गाथार्थः ॥ १००७ ॥ गतं प्रसिद्धिद्वारम् , अधुना क्रमद्वारावयवार्थे प्रतिपादयन्नाहपुव्वाणुपुब्बि न कमो नेव य पच्छाणुपुब्वि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥१००८ ॥
व्याख्या-इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमहँदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाद्यनभिधानादू, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्येष क्रमो भवेत, साध्याद्यनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् स्यात् पश्चानुपूवीति, तथा चामुमेवार्थ प्रतिपादयन्नाह-सिद्धाद्या प्रथमा-पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूया साधव आदी, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ॥ १००८ ॥ साम्प्रतं पूर्वानुपूर्वी त्वमेव प्रतिपादयन्नाह
दीप
RAO
अनुक्रम
[१]
IDraryou
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~904 ~