________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
Jus Educat
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९६७], भाष्यं [ १५१...]
अध्ययन [ - ],
इति प्रकटार्थ, किंबहुना ?, यो 'यथा' येन प्रकारेणावस्थितः सन् करोति कालं स ' तथा ' तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः ॥ ९६७ ॥ किमित्येतदेवम् १ इत्यत आहइहभवभिन्नागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तंमी तो सो तयागारो ॥ ९६८ ॥ व्याख्या - इहभवभिन्नाकारः 'कर्मवशात्' कर्मवशेन 'भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, यतः 'तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकार:' पूर्वभवाकार इति गाथार्थः ॥ ९६८ ॥ तथा किं चजं ठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघणं तं संठाणं तहिं तस्स ॥ ९६९ ॥ व्याख्या - यत् संस्थानमत्रैव 'भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः ॥ ९६९ ॥ तथा चाऽऽह
|दीहं वा हस्तं वा जं चरमभवे हविज्ज संठाणं । तत्तो विभागहीणा सिद्धाणोगाहणा भणिआ ॥ ९७० ॥
व्याख्या- 'दीर्घ वा' पञ्चधनुःशतप्रमाणं 'हवं वा' हस्तद्वयप्रमाणं, वाशब्दात् मध्यमं वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः' तस्मात् संस्थानात् त्रिभागहीना, कुतः ? - त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना, अवगाहन्तेऽस्यामवस्थायामित्यवगाहना – स्वावस्यैवेति भावः, 'भणिता' उक्ता तीर्थकरगणधरैरिति गाथार्थः ॥ ९७० ॥ साम्प्रतमुत्कृष्टादिभेदभिन्नामवगाहनामभिधित्सुराह-
तिन्नि सया तित्तीसा धणुत्तिभागो अ होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ ॥ ९७९ ॥
For Parent
acibrary org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~890~