________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५६], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
दाहदयं, सा च समुदघातानन्तरभाविन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन् , भिन्नमुहूर्त एवेत्यर्थः, Mवजन्ति-च्छन्ति जिना:-केवलिनः 'समुद्घात' प्राक्प्ररूपितस्वरूपमिति गाथार्थः ॥९५६ ॥ साम्प्रतं यदुक्तं शैलेशी का प्रतिपद्यते सिध्यति 'ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तदेशनियमेन गतिनोपपद्यते ।
इति मा भूदव्युत्पन्न विभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्ध्यर्थमिदमाहMI लाउअ एरंडफले अग्गी घूमे उसू धणुविमुक्के । गइपुब्वपओगेणं एवं सिद्धाणवि गईओ ॥ ९५७ ॥
व्याख्या-अलाबु एरण्डफलम् , अग्निधूमी, इषुधेनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निवन्धनाभावेऽपि देशादिनिवतैव गतिः पूर्वप्रयोगेण प्रवतेते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः ॥ ९५७ ॥ अधुना भावार्थः प्रयोगैर्निदश्यते-तत्र कर्मविमुक्तो जीवः सकृदू मेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नबन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्ततक्रियातथाविधसामर्थ्यानुम्पयलेरितेषुवद्, इषुः-शर इति गाथार्थः ॥ ९५७ ॥ एवं प्रतिपादिते सत्याह-- कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया । कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झई १ ॥ ९५८ ॥ व्याख्या-कप्रतिहता'क्व प्रतिस्खलिता इत्यर्थः 'सिद्धा'मुक्काः, तथा 'क्क सिद्धाः प्रतिष्ठिताः'क्व व्यवस्थिता इत्यर्थः, तथा 'क बोन्दि त्यक्त्वा' क तर्नु परित्यज्येत्यर्थः, इह बोन्दिः तनुः शरीरमित्यनर्थान्तरं, तथा व मत्वा 'सिध्यन्ति' निष्ठितार्था
दीप
555553
अनुक्रम
[१]
Sawwwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | सिद्ध-जीवानाम् गति, स्थिति, स्थान आदिनाम् वर्णनं
~886~