________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५३], भाष्यं [१५१...]
(४०)
SASSASSASALAR RESS
भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छन्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मत्थंप्रकार, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति शेषितम्' इति शेषं कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाधुपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किंभूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकार ज्ञानावरणादिभेदेन सितं 'सित वर्णबन्धनयो रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म ध्मातं, 'ध्मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं -सिद्धत्वमुपजायते, नासिद्धस्य, 18 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्त्या व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत् , तथा चाऽऽहुरेके-'दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिर्श न काश्चिद्विदिशं न काचित् , स्नेहक्षयात् केवलमेति शान्तिम् | ॥१॥ इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात् , प्रदीपदृष्टान्तस्याप्यसिद्धत्वात् , तथाहि-तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवा|ऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रया-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति
१ भवे-संसारे भवो भव्यः अभव्य इत्यर्थः
अनुक्रम
[१]
dainatorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~880~