________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३८], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
व्याख्या-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी २, अनाचार्यकं कर्म साचार्यकं शिल्प,कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा18 इति कर्मणो जाता कर्मजा ३, परिः-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति !, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाहपुवमदिवमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अब्वायफलजोगिणि बुद्धी उप्पत्तिआ नाम॥ ९३९ ॥ ___ व्याख्या-'पूर्वम्' इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः 'अवेदितः' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः-यधावस्थितः गृहीत:-अवधारितः अथे:-अभिप्रेतपदार्थों यया सा तथा, इहकान्तिकमिहपरलोकाविरुद्धं फलान्त-| राबाधितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम् , अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा,अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा| बुद्धिः औत्पत्तिकी नामेति गाधार्थः॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनाथेमुदाहरणानि प्रतिपादयन्नाह
भरहसिल १पणिअ २ रुक्खे ३ खडग ४ पड ५ सरड ६ काग ७ उच्चारे ८1
गय ९घयण १० गोल ११ खंभे १२, खुड्ग १३ मग्गिस्थि १४ पद १५ पुत्ते १६॥९४०॥ पणः+ मुद्रिका.
दीप
अनुक्रम
[१]
JABERame.
a
ntarayan
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | औत्पातिकीबुद्धिः विषयक विविध-दृष्टांता:
~832~