________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९२३], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
'जीवम् आत्मानं 'मोचयति' अपनयति, कुतः:-भवसहस्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः, इह च सहस्रशब्दो यद्यपि दश
शतसङ्ग्यायां वर्तते तथाऽप्यत्रार्थादनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वहै स्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कधमुच्यते-जीवं मोचयतीत्यादि, उच्यते, यद्यपि तद्भव एव है। मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय' बोधिलाभार्थ, बोधिलाभश्चाचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः ॥ ९२३ ॥ तथा चाह
अरिहंतनमुकारो धन्नाण भवक्खयं कुणताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ॥ ९२४ ॥ व्याख्या-अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम् , तत्र धन्याः-ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम्-आचरता, किम् ?-'हृदय' चेतः अनुन्मुञ्चन्' अपरित्यजन् , हृदयादनपगच्छन्नित्यर्थः, विस्रोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः ॥ ९२४ ॥
अरहतनमुकारो एवं खलु वणिओ महत्थुत्ति । जो मरणमि उवग्गे अभिक्खण कीरए बहुसो ॥ ९२५ ॥ दी व्याख्या-अर्हन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थों यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्घाहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो 'मरणे' प्राणत्यागलक्षणे उपाने-समीपभूते 'अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च
दीप
अनुक्रम
[१]
Exam
Alanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~816~