________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
आवश्यकहारिभ द्रीया
॥ ४०६ ॥
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा - ], निर्युक्तिः [९२०],
अध्ययन [ - ],
धारणे, ज्ञानावरणादि, ततश्वाष्टविधं कर्मैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां' सर्वसत्त्वानामनवबोधादिदुःखहेतुत्वादिति भावः, पश्चार्द्ध पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ॥ ९२० ॥ अथवा
अरिहंति वंदनमंसणाई अरिहंति पूअसकारं । सिडिगमणं च अरिहा अरहंता तेण वुच्चति ॥ ९२९ ॥ व्याख्या- 'अई पूजायाम्' अर्हन्तीति पचाद्यचू' कर्तरि अर्हाः, किमर्हन्ति ?-वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारं तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा 'सिद्धिगमनं चार्हन्ति' सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धि:- लोकान्तक्षेत्रलक्षणा, वृक्ष्यति च- 'ईंह बोदिं चइत्ता णं तत्थ गंतॄण सिज्झई' तद्गमनं च प्रत्यर्हा इति, 'अरहंता तेण बुच्चंति' प्राकृतशैल्या अर्हास्तेनोध्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः ॥ ९२१ ॥
तथा - देवासुरमणुए अरिहा पूआ सुरुत्तमा जम्हा। अरिणो हंता रयं हंता अरिहंता तेण बुच्चति ॥ ९२२ ॥ व्याख्या -- देवासुरमनुजेभ्यः पूजामर्हन्ति प्राप्नुवन्ति तद्योग्यत्वात्, सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह - 'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः | इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति-
९२२ ॥
अरहंतनमुकारो जीवं मोएह भवसहस्साओ । भाषेण कीरमाणो होइ पुणो बोहिला भाए ॥ ९२३ ॥ व्याख्या - अर्हतां नमस्कारः अहेज मस्कार, इहा हेच्छब्देन बुद्धिस्थार्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमःशब्द एव, * इह तनुं स्ववस्वा तत्र गत्वा सिध्यति
For Parts Only
भाष्यं [ १५१...]
~ 815~
नमस्कार० वि० १
॥४०६ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
by org