________________
आगम
(४०)
“आवश्यक”- मूलसूत्र
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
दीप
तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गब्यूतं' परिच्छिनत्ति जघन्येनावधिः, क!- नरान् कायन्तीति नरकाः, के गैरै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः.IN आश्रयानयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः ॥४६॥ एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिपित्सुराह
चत्तारि गाउयाई, अगुवाई तिगांउया चेव । अट्ठाइजा दुषिण य, दिवहमेगं च निरएसु ॥४७॥ व्याख्या-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रलप्रभाधाधारनरकेषु यथासंख्यमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिद-नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्न-1 प्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गब्यूतानि त्रिगव्यूतं, एवं
आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो वेषां ते तथा तत्वेनेति समासः २ तास्थ्यात्तापदेश इतिन्यावात् । प्यधिकरणबहुव्रीहेरपि दर्शनात् सम्यथाऽचत्वारीतिभावात् ५ उत्कृष्टति. ५ जघन्यति. तिगाश्यं. + नरएसु. 1 अबुढाईयाइ जहष्णयं अद्धगाउबताई । गाउप्रति भणि संविभ उकोसमजहणं ॥1॥[भाष्यगाथाऽभ्याख्याता च].
अनुक्रम
61-50-50*
नारक-देवादिनाम् अवधि-क्षेत्र दर्शयते
~80~