________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९२], भाष्यं [१५१...]
(४०)
धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात, तस्मानोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरं ग्रामः-चतुर्दशभूतग्रामसमु-13 दायः, यथोक्तम्-"एगिदिय सुहुमियरा सन्नियरपणिंदिया सबितिचऊ । पज्जत्तापजत्ता भेदेणं चोदसग्गामा ॥१॥" अलं
प्रसङ्गेन, प्रकृतं प्रस्तुमः-सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिदाक्रत्याह-तपरिणओ' जीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः। एकत्वानेकत्व-15
चिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नमस्कारः, व्यवहारस्य व्यवहारपरत्वाद् बहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थों विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रति-I पद्यमानकाङ्गीकरणतोऽभीष्टमर्थ निरूपयन्नाह-'पुवपडिवन्नओ उ जीवाण' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते-यस्मान्नमस्कार्यनमस्कद्वयाधीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कारक्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य, स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत, तथाहि-न दातुर्भिक्षा निष्पादकस्य, अपि तु भिक्षोभिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषापेक्षावशप्रापिता
एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतराः पञ्चेन्द्रियाः सद्वित्रिचनुष्काः। पर्याशापर्याप्तभेदेन चतुर्दश मामाः ॥1॥* क्षविवक्षावा. प्र.
अनुक्रम
[१]
jandiararyan
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~762~