________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educato
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्तिः [८१०], भाष्यं [१५०...]
इतरस्तु भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूच्छिमेषु तूभयाभाव इति उक्तं च- “उभयाभावो पुढवादिएस विगलेसु होज्ज उबवण्णो । पंचदियतिरिए णियमा तिरहं सिय पवजे ॥ १ ॥ णारगदेवा कम्मग अंतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥ २ ॥ द्वारं ॥ कालद्वारमधुना, तत्र कालत्रिविध:- उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसा| गरोपमकोटीकोटिमानः कालचक्र भेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षड्विधो भवति, तत्रावसर्पिण्यां सुषमसुषमाख्यश्चतुः| सागरोपमकोटी कोटिमानः प्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषम दुष्पमाख्यस्तु सागरोपमकोटी कोटिद्वयमानस्तृतीयः, दुष्पमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्र न्यून सागरोपम कोटी कोटिमानश्चतुर्थः, दुष्प| माख्यस्त्वेकविंशतिवर्षसहस्रमानः पञ्चमः, दुष्पमदुष्पमाख्यः पुनरेकविंशतिवर्षसहस्रमान एव पष्ठ इति, अयमेव चोत्क्रमणोत्सर्पिण्यामपि यथोक्तसङ्ख्योऽवसेयः काल इति, अवस्थितस्तु चतुर्विधः, तद्यथा- सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्पमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरूत्तरकुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयो हैमवतैरण्यवतयोः चतुर्थो विदेहेष्विति, तत्रेत्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराह
१ उभयाभावः पृथ्व्यादिकेषु विकलेषु भवेत् उपपन्नः । पञ्चेन्द्रियतिर्यक्षु नियमात् प्रयाणां स्वात्प्रतिपद्यमाने ॥१॥ नारक देवाकर्मकान्तरीयेषु द्वयोभंजना तु कर्मजनरेषु चतुर्णां संमूषु भयप्रतिषेधः ॥ २ ॥
For Parts Only
www.incibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~899~