________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६१], भाष्यं [१२३...]
(४०)
यवृत्तिः
प्रत
सुत्रांक
आवश्यक- रदो-गुरुर्ब्रयादिति गाथार्थः ॥ उक्तं नयद्वारम् , अधुना समवतारद्वारमुच्यते-कैतेषां नयानां समवतारः, क वाऽन
हारिभद्रीवतार इति संशयापोहायाह॥२८५||
विभागः१ मूढनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो॥ ७६२ ॥
| व्याख्या-मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिक, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च दिमूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' (पा०५-२-११५) विति मूढनयिक, श्रुतं 'कालिकं तु कालिकमिति
काले-प्रथमचरमपौरुषीद्वये पठ्यत इति कालिक, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आहकक पुनरमीषां समवतारः', 'अपुहुत्ते समोतारों' अपृथग्भावोऽपृथक्त्वं चरणधर्मसमाद्रव्यानुयोगानां प्रतिसूत्रमविभागेन
वर्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, 'नस्थि पुहुत्ते समोतारों' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवताय॑न्त इति गाधार्थः॥ आह-कियन्तं कालमपृथक्त्वमासीत् ?, कुतो वा समारभ्य पृथक्त्वं जातमिति?, उच्यते,
जावंति अजवहरा अपुहुत्तं कालियाणुओगस्स । तेणारेण पुटुत्तं कालियसुअ दिविवाए य॥ ७६३ ॥ व्याख्या-यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात् , GI २८५४ कालिकग्रहणं प्राधान्यख्यापनार्थम् , अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति । तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आर्यवैरा इति?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह
PROGRA
दीप
अनुक्रम
FOR
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~573~